Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीसिद्धसेनदिवाकरकृतम्
२०९ 'अनर्थाः' न अर्था अनर्थाः । एते' प्रत्यक्षरूपाः । 'हि' यस्मात् । कथं मां विधुरयन्तिक्लेशयन्ति । यदि हि त्वं दृष्टोऽभविष्यः तदा न मां एते अनर्था व्यधुरयिष्यन् । इति सप्तत्रिंशत्तमवृत्तार्थः ॥ ३७॥
मा० वि०-नूनमिति । हे विभो! नूनं-निश्चितं त्वं मया पूर्व-पूर्वजन्मनि सकृदपि न प्रविलोकितोऽसि-न दृष्टोऽसि । 'असि' इति क्रियापदम् । कः कर्ता ? 'त्वम् । केन ? 'मया' । त्वं किम्भूतः ? 'प्रविलोकितः । कथम् ? 'न' । कथम् ? 'पूर्वम्' । कथम् ? 'सकृदपि' एकवारमपि । मया किंलक्षणेन ? मोहो-मौन्यं स एव तिमिरम्-अन्धकारं तेन आवृते-आच्छादिते लोचने यस्य स तेन । एवं कथं ज्ञातं तत्रार्थे हेतुमाह-हि-निश्चितम् अन्यथा माम् एते अनर्थाः-क्लेशाः कथं विधुरयन्ति ?-पीडयन्ति ? । 'विधुरयन्ति' इति क्रियापदम् । के कर्तारः? 'अनर्थाः' । कं कर्मतापन्नम् ? 'माम्' । अनर्थाः किंलक्षणाः? 'मर्माविधः' मर्माणि आविध्यन्ति-भिन्दन्ति इति मर्माविधः, मर्मस्थानभेदका इत्यर्थः । पुनः किंलक्षणाः ? 'प्रोद्यत्प्रबन्धगतयः' प्रोद्यन्त्यः-प्रभवन्त्यः प्रबन्धगतयःसन्तानगतयो येभ्यस्ते, प्रादुर्भवत्परम्पराका इत्यर्थः॥
प्रविपूर्वः 'लोकृड् दर्शने' (सिद्ध० धा०) लोक्धातुः क्तप्रत्ययः इट् प्रविलोकितः इति जातम् । असीति पूर्ववत् । आपूर्वः 'व्यधंच ताडने' (सिद्ध० धा० )व्यध(धातुः) आविध्यन्तीति आविधः विप्प्रत्ययः विपो लोपः 'ज्याव्येव्यधिव्यचिव्यथेरिः' (सिद्ध ४-१-७१) इति वृत् यस्य इकारः जसि आविधः इति जातम् । विधुरं कुर्वन्तीति विधुरयन्ति, 'णिज् बहुलं नाम्नः कृगादिषु' (सिद्ध० ३-४-४२) णिजप्रत्ययः, 'त्र्यन्त्यस्वरादेः', (सिद्ध०७-४-४३) इति रस्य अलोपः, 'गुणः०' (सिद्ध० ३-३-२) शव् , ए अय्, 'लुगस्यादेत्यपदे' (सिद्ध०२-१-११३) अलोपः विधुरयन्ति । यदि पूर्व त्वं दृष्टो भवेत् , तदा मां अनर्थाः कथं पीडयन्ति ? । पीडयन्ति चेत् , तदा त्वं पूर्व दृष्टो नास्ति इति लिङ्गदर्शने लिङ्गिज्ञानम् । इति सप्तत्रिंशत्तमकाव्यं विवरणतो (वृत्तम् ॥ ३७॥
The sight of God averts adversities.
It is certain, oh Omnipotent one! that Thou hast not been formerly seen even once by me whose eyes are blinded by the darkness of infatuation. For, otherwise, how can these misfortunes which pierce the vital parts of the heart and which are quickly appearing in a continuous succession, make me miserable? (37)
१ 'प्रकटस्वरूपाः' इति घ-पाठः।
भ. २७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/1f9992141eda0e64c42409051bb0749fb9817eaf24a1cfa22d1ffa91d60aae59.jpg)
Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408