Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 354
________________ श्रीमानतुङ्गसूरिप्रणीतं ॥ भयहरेत्यपरनामकं नमिऊणस्तोत्रम् ॥ (चिरन्तनमुनिरत्नरचितावचूरिसमेतम् ) अहम् । आदौ कविर्मङ्गलाभिधानपुरःसरं प्रस्तावनागाथामाह - नमिऊण पणयसुरगण-चूडामणिकिरणरंजिअं मुणिणो। चलणजुअलं महाभय-पणासणं संथवं वुच्छं ॥१॥ [नत्वा प्रणतसुरगणचूडामणिकिरणरञ्जितं मुनेः। चरणयुगलं महाभयप्रणाशनं संस्तवं वक्ष्ये ॥ नत्वा चरणयुगलम् । कस्य ? मुनेः-सर्वज्ञस्य । उत्तरत्र (गा०५) 'पासजिणचलण' इत्यादावनेकशः (गा० १७-१९, २१) नामकीर्तनसामर्थ्यात् श्रीपार्श्वनाथस्य चरणयुगलम् । किविशिष्टम् ? प्रणताः-आदिकर्मणि क्तविधानात् नन्तुमारब्धा ये सुरगणास्तेषां चूडाः-शिखास्तासु ये मणयस्तेषां किरणैः रञ्जितं-विच्छुरितं यत् तत् । 'वुच्छं' ति वक्ष्ये, करिष्यामि इत्यर्थः । कम् ? सम्यक् स्तूयतेऽनेन स्तुत्य इति करणेऽणि संस्तवस्तम् । स्तवशब्देनैव सिद्धे समुपसर्गो वैशिष्ट्यं द्योतयति, वैशिष्ट्यं चार्थप्रापणानर्थप्रतिघातसामर्थ्यात् । तत्रानर्थप्रतिघातकत्वमाह, महान्ति यानि जल-ज्वलनादिषोडशपदार्थसमुत्थानि [ यानि यानि ] भयानि तानि, प्रकर्षेण इतरभयनाशनपदार्थेभ्य आधिक्येन नाशयति महाभयप्रणाशनस्तम् । अनर्थे च प्रतिहते अर्थप्राप्तिरयत्नसिद्धैव, अथवा महाश्च-उत्सवा अभयं चभयाभावस्तयोविषये पणं अवश्यमेतानि कुर्यामिति निश्चयरूपं असति-आदत्ते अपीयसां (अनेन ?) असूधातोः कर्तर्यनिटि महाभयपणासनस्तम् । अनेन च व्याख्यानेनार्थप्रेतिपत्तिसामर्थ्यमप्युक्तं भवति । 'चलण' त्ति हरिद्रादित्वाद् लत्वम् ॥१॥ Having bowed to the 'ascetic's pair of feet which are coloured by rays of crest-jewels of an assemblage of the celestials who have made obeisance to (Him), I shall compose ( in His honour) a hymn which will destroy great dangers [ or which ought to be recited at the time of festivals and safety 1.-1 १'स्तेषां मण.' इति ख-पाठः। २ 'मस्याह' इति ख-पाठः। ३ 'नाशित'इति ख-पाठः। ४ 'महाभय भयाः' इति क-पाठः। ५ प्राप्तिसा०। ६ 'हरिद्रादौ का' इति सिद्धहैमे (4-1-२५४)। 1 Lord Pärs'va's, भ० २९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408