Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 356
________________ श्रीमानतुङ्गसूरिप्रणीतम् २२७ Those ( persons ) whose hands, feet, nails and mouth have decayed, whose nose is bent low [ or who desire to drown themselves ], whose loveliness is lost [or has become pale ] and whose limbs in entirety have been burnt by sparks of fire of terrible disease viz., leprosy, once more attain beauty like sylvan trees burnt by conflagration, on their lustre being enhanced by sprinkling of a handful of water of service (rendered) to Thy feet. 2-3 法 अत्र प्रतिद्वारं युग्ममिति तेनैव जलभयापहारमाह दुवायखुभिय जलनिहि, उब्भडकल्लोल भीसणारावे । संभंतभयविसंठुल- निज्जामयमुक्कवावारे ॥ अविदलिअजाणवत्ता, खणेण पार्वति इच्छिअं कूलं । 'पास' जिणचलणजुअलं, 'निच्चं चिअ जे नमंति नरा ॥४-५॥ युग्मम् [दुर्वाक्षुभिते जलनिधौ उकल्लोलभीषणारावे । सम्भ्रान्तभयविसंस्थुल निर्यामकमुक्तव्यापारे || अविदलितयानपात्राः क्षणेन प्राप्नुवन्ति ईप्सितं कूलम् । पार्श्वजिन चरणयुगलं नित्यमेव ये नमन्ति नराः ॥ ] दुष्टो वात:, तेन क्षुभिते जलनिधौ । द्वयोरपि सप्तमीलोपः प्राकृतत्वात् । तथा उद्भटाउदारा ये कल्लोलास्तेषां भीषण आरावः - शब्दो यत्र तैव भीषणः - आरावो यस्य । सम्भ्रान्ताः- किङ्कर्तव्यतामूढाः भयेन विसंस्थुलाः - विह्वला ये निर्यामकाः - पोतवाहकाः तैर्मुक्तः व्यापारः - पोतवाहनादिलक्षणो यत्र यद्वा शं च - सुखं च भा - दीप्तिस्तयोरन्तः - समाप्तिर्यत्र तद्विधं यद्भयं तेन विसंस्थुलाः । अथवा शं-भोगसुखमस्यास्तीति मत्वर्थीये भप्रत्यये शम्भः-पोतनायकस्तस्य यद् अन्तभयं - मृत्युभी स्तेन विसंस्थुलैः निर्यामकैर्मुक्तव्यापारे । एवंविधेऽप्यर्णवे न विदलितं-भग्नं यानपात्रं - प्रवहणं येषां ते तथाविधाः सन्तः क्षणेन प्राप्नुवन्ति ईप्सितं कुलं - रोधः । के ते ? नराः । किं सर्वेऽपि १, नेत्याह-ये नमन्ति पार्श्वजिनचरणयुगलम् । चिअ - अपिशब्दस्यावधारणार्थत्वान्नित्यमेव, न पुनः सकृद् द्विस्त्रिर्वा । यद्वा पार्श्वजिनचरणयुगलं भवतः निच्चा - नीत्वा आत्ममानसे तथा 'अंचिअ' त्ति गन्धादिभिः पूजयित्वा ये नमन्तीति ॥ ४-५ ॥ Jain Education International १ 'निश्च्चं चिभ' इत्यपि स्यात्, तदा नीत्वाऽर्चयित्वा इति प्रतिसंस्कृतं ज्ञेयम् । २ 'शंभाऽन्तभय०' इत्यपि सङ्गच्छते । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408