Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 345
________________ २१८ कल्याणमन्दिरस्तोत्रम् आदर्शादिगतप्रतिबिम्बवदिति वा निर्मलं यन्मुखाम्बुजं-वक्रकमलं तत्र बद्धलक्षा-बद्धवेध्याः निवेशितदृश इति यावत् । लक्षशब्दो यकारान्तोऽप्यस्ति, "लक्षं लक्ष्यं शरव्यकम्' इत्यभिधान(चिन्तामणि)कोश(का० ३, श्लो० ४४१)वचनात् , “बिम्बं तु प्रतिबिम्बे स्यान्मण्डले बिम्बिकाफले" इत्यनेकार्थे (हैमे का० २, श्लो० ३१७) । मुखमेवाम्बुजं मुखाम्बुजं 'कर्मधारयः', बिम्बवत् निर्मलं विम्बनिर्मलं 'तत्पुरुषः', बिम्बनिर्मलं च तत् मुखाम्बुजं च बिम्बनिर्मलमुखाम्बुजं 'कर्मधारयः', तव बिम्बनिर्मलमुखाम्बुजं त्वद्विम्बनिर्मलमुखाम्बुजं 'तत्पुरुषः', त्वद्विम्बनिर्मलमुखाम्बुजे बद्धं त्वद्विम्बनिर्मलमुखाम्बुजबद्धं 'तत्पुरुषः', त्वद्विम्बनिर्मलमुखाम्बुजबद्धं लक्षं यैस्ते त्वद्विम्बनिर्मलमुखाम्बुजबद्धलेक्षाः 'बहुव्रीहिः' । इति त्रिचत्वारिंशत्तमवृत्तार्थः ॥ ४३ ॥ थे तव स्तोत्रं रचयन्ति ते किं फलं प्राप्नुवन्तीत्याह हे जननयनकुमुदचन्द्र! तेऽचिरान्मोक्षं प्रपद्यन्ते इत्यन्वयः। कर्चुक्तिः । हे 'जननयनकुमुदचन्द्र!' हे लोकलोचनकुवलयविधो! । जनानां नयनानि जननयनानि 'तत्पुरुषः', जननयनान्येव कुमुदानि जननयनकुमुदानि 'कर्मधारयः', जननयनकुमुदेषु चन्द्रो जननयनकुमुदचन्द्रस्तस्य सम्बोधनं 'तत्पुरुषः। 'ते' भव्याः । 'अचिरात्' क्षणेन । 'मोक्षं' अनन्तज्ञान१दशेनरसुख ३वीये४चतुष्टयरूपां सिद्धिम् । 'प्रपद्यन्ते' प्राप्नुवन्ति । किं कृत्वा? 'भुक्त्वा' अनुभूय । काः कर्मतापन्नाः ? 'स्वर्गसम्पदः' स्वर्गस्य-देवलोकस्य सम्पदः-विभूतथः । स्वर्गस्य सम्पदः स्वर्गसम्पदः । 'तत्पुरुषः' (ताः)। किंलक्षणाः स्वर्गसम्पदः? 'प्रभास्वराः' प्रकर्षेण दीप्यमानाः । प्रकर्षण भास्वराः प्रभास्वराः 'तत्पुरुषः । ते किलक्षणाः ? 'विगलितमलनिचयाः' विगलितो-विगतो मलस्य-पापस्य निचयः-समूहो येभ्यस्ते । मलस्य निचयो मलनिचयः 'तत्पुरुषः', विगलितो मलनिचयो येभ्यस्ते विगलितमलनिचयाः 'बहुप्रीहिः' । “मलस्त्वधे । किट्टे कदर्ये विष्ठायाम्" इत्यनेकार्थे (हैमे का० २, श्लो० ५१०५११)। जननयनकुमुदचन्द्रेति विशेषणं वदता स्तोत्रका कविना दीक्षासमये श्रीगुरुवृद्धवादिसूरिदत्तं कुमुदचन्द्रेतिरूपं स्वनाम ज्ञापितं द्रष्टव्यम् । अत्र च स्तोत्रे महाकवि-श्रीसिद्धसेनदिवाकरबिरचितत्वात् प्रायः प्रतिवृत्तं मन्त्राः सम्भाव्यन्ते, ते तथाविधानाया. भावात् नामिहिताः, स्वयमूह्यास्ते सुगुरोः प्रसादादिति । अत्र च स्तवे त्रिचत्वारिंशत्काव्येषु वसन्ततिलकाच्छन्दः, तल्लक्षणं चेदम्-"ख्याता वसन्ततिलका तभजा जगौ गः" इति; प्रान्तकान्ये त्वार्याच्छन्दश्च, तल्लक्षणमप्येवं (वृत्तरत्नाकरे) "लक्ष्मैतत् सप्त गणा गोपेता भवति नेह विषमे जः। षष्ठोऽयं न लघुर्वा प्रथमेऽर्धे नियतमार्यायाः ॥१॥ १-२ लक्षस्थाने लक्ष्यशब्दस्य प्रयोगः घ-प्रतौ।. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408