Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 347
________________ १२६ कल्याणमन्दिरस्तोत्रम् नम् ? 'संस्तवम्' । कस्य ? 'तव' । कथम् ? 'इत्थम् । भव्याः किम्भूताः ? 'समाहितधियः' समाहिता-स्वस्था धीर्येषां ते समाहितधियः । कथम् ? 'विधिवत्' । भव्याः किंलक्षणाः? 'सान्द्रोल्लसत्पुलककञ्चकिताङ्गभागाः' उल्लसन्तश्च ते पुलकाश्च उल्लसत्पुलकाः, सान्द्रं-निबिडं उल्लसत्पुलकाः सान्द्रोल्लसत्पुलकाः, सान्द्रोल्लसत्पुलकैः कञ्चकितः-सन्नाहितः अङ्गभागःशरीरावयवो येषां ते सान्द्रोल्लसत्पुलककञ्चकिताङ्गभागाः। पुनः किंलक्षणाः? त्वद्विम्बस्य -त्वत्प्रतिकृतेर्यद् निर्मल मुखाम्बुजं तस्मिन् बद्धं लक्ष-वेध्यं यैस्ते त्वद्विम्बनिर्मलमुखाम्बुजबद्धलक्षाः॥ तव बिम्ब त्वद्विम्बं, (मुखमेवाम्बुजं मुखाम्बुजं, निर्मलं च तद् मुखाम्बुजं च निर्मलमुखाम्बुजं), त्वद्विम्बस्य निर्मलमुखाम्बुजं त्वद्विम्बनिर्मलमुखाम्बुजं, त्वद्विम्बनिर्मलमुखाम्बुजे बद्धं लक्षं यैस्ते त्वद्विम्बनिर्मलमुखाम्बुजबद्धलक्षाः । इति त्रिचत्वारिंशत्तमकाव्यार्थः ॥४३॥ जननयनेति । हे जननयनकुमुदचन्द्र ! ते भव्याः अचिरात्-शीघ्रं मोक्षं प्रपद्यन्तेप्राप्नुवन्ति । 'प्रपद्यन्ते' इति क्रियापदम् । के कर्तारः? 'ते' । कं कर्मतापन्नम् ? 'मोक्षम् । कथम् ? 'अचिरात्' । ते किंलक्षणाः? 'विगलितमलनिचयाः' अर्थात् (विगलितः) कर्मलक्षणो मलनिचयो येभ्यस्ते विगलितमलनिचयाः। किं कृत्वा? 'भुक्त्वा' । काः कर्मतापन्नाः ? 'स्वर्गसम्पदः' स्वर्गाणां-सौधर्मादीनां सम्पदो-लक्ष्म्यः ताः प्रति । किलक्षणाः? 'प्रभास्वराः' दीपाः, न तु सामान्याः॥ जनानां नयनानि जननयनानि, जननयनान्येव कुमुदानि जननयनकुमुदानि, जनन· यनकुमुदेषु चन्द्र इव जननयनकुमुदचन्द्रः, तस्य सम्बोधनं हे जननयनमुकुदचन्द्र! इति विशेषणेन कविना श्रीसिद्धसेनेन दीक्षासमये श्रीवृद्धवादिसूरिस्वगुरुदत्तं कुमुदचन्द्र इति नामापि ज्ञापितम् । इति चतुश्चत्वारिंशत्तमकान्यार्थदीपिका ॥४४॥ युग्ममर्थतः। छ ॥श्रीः॥ (अथ प्रशस्तिः) श्रीगौतमस्योपमितिं दधानाः । सौहित्यतः सद्विधिसावधानाः। जयन्ति चन्द्रा इव सौम्यभाजः श्रीवाचकेन्द्रा गुरुशान्तिचन्द्राः॥१॥ तेषां विनेया बुधरत्नचन्द्राः समस्तशास्त्राम्बुधिचन्द्रभासः। अध्यापितानेकविनेयमुख्याः - शान्तप्रकृत्याऽऽश्विनचन्द्रतुल्याः ॥२॥ 'सूरीखरगुरु' इति ख-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408