________________
१२६
कल्याणमन्दिरस्तोत्रम् नम् ? 'संस्तवम्' । कस्य ? 'तव' । कथम् ? 'इत्थम् । भव्याः किम्भूताः ? 'समाहितधियः' समाहिता-स्वस्था धीर्येषां ते समाहितधियः । कथम् ? 'विधिवत्' । भव्याः किंलक्षणाः? 'सान्द्रोल्लसत्पुलककञ्चकिताङ्गभागाः' उल्लसन्तश्च ते पुलकाश्च उल्लसत्पुलकाः, सान्द्रं-निबिडं उल्लसत्पुलकाः सान्द्रोल्लसत्पुलकाः, सान्द्रोल्लसत्पुलकैः कञ्चकितः-सन्नाहितः अङ्गभागःशरीरावयवो येषां ते सान्द्रोल्लसत्पुलककञ्चकिताङ्गभागाः। पुनः किंलक्षणाः? त्वद्विम्बस्य -त्वत्प्रतिकृतेर्यद् निर्मल मुखाम्बुजं तस्मिन् बद्धं लक्ष-वेध्यं यैस्ते त्वद्विम्बनिर्मलमुखाम्बुजबद्धलक्षाः॥
तव बिम्ब त्वद्विम्बं, (मुखमेवाम्बुजं मुखाम्बुजं, निर्मलं च तद् मुखाम्बुजं च निर्मलमुखाम्बुजं), त्वद्विम्बस्य निर्मलमुखाम्बुजं त्वद्विम्बनिर्मलमुखाम्बुजं, त्वद्विम्बनिर्मलमुखाम्बुजे बद्धं लक्षं यैस्ते त्वद्विम्बनिर्मलमुखाम्बुजबद्धलक्षाः । इति त्रिचत्वारिंशत्तमकाव्यार्थः ॥४३॥
जननयनेति । हे जननयनकुमुदचन्द्र ! ते भव्याः अचिरात्-शीघ्रं मोक्षं प्रपद्यन्तेप्राप्नुवन्ति । 'प्रपद्यन्ते' इति क्रियापदम् । के कर्तारः? 'ते' । कं कर्मतापन्नम् ? 'मोक्षम् । कथम् ? 'अचिरात्' । ते किंलक्षणाः? 'विगलितमलनिचयाः' अर्थात् (विगलितः) कर्मलक्षणो मलनिचयो येभ्यस्ते विगलितमलनिचयाः। किं कृत्वा? 'भुक्त्वा' । काः कर्मतापन्नाः ? 'स्वर्गसम्पदः' स्वर्गाणां-सौधर्मादीनां सम्पदो-लक्ष्म्यः ताः प्रति । किलक्षणाः? 'प्रभास्वराः' दीपाः, न तु सामान्याः॥
जनानां नयनानि जननयनानि, जननयनान्येव कुमुदानि जननयनकुमुदानि, जनन· यनकुमुदेषु चन्द्र इव जननयनकुमुदचन्द्रः, तस्य सम्बोधनं हे जननयनमुकुदचन्द्र! इति विशेषणेन कविना श्रीसिद्धसेनेन दीक्षासमये श्रीवृद्धवादिसूरिस्वगुरुदत्तं कुमुदचन्द्र इति नामापि ज्ञापितम् । इति चतुश्चत्वारिंशत्तमकान्यार्थदीपिका ॥४४॥ युग्ममर्थतः। छ ॥श्रीः॥ (अथ प्रशस्तिः)
श्रीगौतमस्योपमितिं दधानाः ।
सौहित्यतः सद्विधिसावधानाः। जयन्ति चन्द्रा इव सौम्यभाजः
श्रीवाचकेन्द्रा गुरुशान्तिचन्द्राः॥१॥ तेषां विनेया बुधरत्नचन्द्राः
समस्तशास्त्राम्बुधिचन्द्रभासः। अध्यापितानेकविनेयमुख्याः - शान्तप्रकृत्याऽऽश्विनचन्द्रतुल्याः ॥२॥
'सूरीखरगुरु' इति ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org