Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 346
________________ श्रीसिद्धसेनदिवाकरकृतम् षष्ठे द्वितीयलात् परकेऽन्ले मुखलाच्च सयतिपदनियमः । पञ्चमके तस्मादिह भवति षष्ठो लः ॥ २ ॥” इति चतुश्चत्वारिंशत्तमवृत्तार्थः ॥ ४४ ॥ चरमे ( अथ प्रशस्तिः ) - श्रीमत्तपागणन भोगणपद्मबन्धुर्भाग्यादकब्बर महीरमणादवाप्ताम् । ख्यातिं जगद्गुरुरिति प्रथितां दधानः सश्रीकहीरविजयाभिधसूरिरासीत् ॥ १ ॥ - वसन्त ० तत्पट्टे वरगुणमणि - गणरोहणभूधरा धरापीठे । साम्प्रतमद्भुतयशसो, विजयन्ते विजयसेन सूरिवराः ॥ २ ॥ गीतिरियम् । वाचकचूडामणयः, श्रीमन्तः शान्तिचन्द्रनामानः । विद्यागुरवो विबुधाः, विजयन्तां कमलविजयाश्च ॥ ३ ॥ - आर्या एषां श्रीमद्गुरूणां प्रसादतो नयनबाणरसचन्द्रैः ( १६५२ ) । प्रमिते वर्षे रचिता, वृत्तिरियं कनककुशलेन ॥ ४ ॥ - आर्या प्रत्यक्षरं गणनया, वृत्तौ सङ्ख्या निवेद्यते । सञ्जाता षट्शती सार्द्धा, श्लोकानामिह मङ्गलम् ॥ ५ ॥ - अनु० अङ्कतोऽपि ६५० सूत्रसहितवृत्तेर्ग्रन्थानं ७२० । इति श्रीकल्याणमन्दिर स्तोत्रवृत्तिः सम्पूर्णा । लिखितं गणित कलवादिकौशिक सहस्रांशुपण्डित १०५१श्री केसरसागरगणि शिष्यगणिअनन्तसागरेण लिपीकृतं संवत् १७६३ वर्षे मृगसिर शुदि उज्ज्वलपक्ष अष्टम्यां तिथौ इति श्री० श्री० आयुपुरे श्रीशान्तिजिनप्रसादात् ॥ श्रीरस्तु ॥ कल्याणमस्तु || मा०वि० - इत्थमिति । हे जिनेन्द्र ! इत्थं - अमुना प्रकारेण ये भव्याः तव संस्तवं रचयन्ति । ' रचयन्ति' इति क्रियापदम् । के केर्तारः ? 'भव्याः' । के ? 'ये' । कं कर्मताप १ गीति-लक्षणम् - Jain Education International "आर्या प्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः । दलयोः कृतयतिशोभां तां गीतिं गीतवान् भुजङ्गेशः ॥ " २ ' स्याद् वाल्लोकानामिहमङ्गतः (?)' इति ग-पाठः । ३ 'ससूत्र वृत्ते ०' इति ग-पाठः । २१९ ४ क - प्रतिस्थोऽयमुल्लेखः । ग - प्रतिगतस्तु यथा - " सकल पडित शिरोमणिपण्डितश्री ५ श्रीहंसविमलगणि तत् शिष्यगणिश्री ५ श्रीकुशल विमलतत् शिष्यसंवत् १७२४ वर्षे कार्त्तिक शुदि ५ शुक्रवारे ।" घ- प्रतौ तु एवम् - श्रीलक्ष्मीविजयगणिना ( णीनां ) विनैवेन पं० रामविजयगणिना लिपीचक्रे सं० १७८५ चैत्र ०८ | For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408