Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीसिद्धसेनदिवाकरकृतम् - अथ कविः स्तवोपसंहारपूर्व स्वनाम व्यञ्जयन्नाह
इत्थं समाहितधियो विधिवजिनेन्द्र ! . सान्द्रोल्लसत्पुलककञ्चुकिताङ्गभागाः । त्वहिम्बनिर्मलमुखाम्बुजबद्धलक्षा
ये संस्तवं तव विभो! रचयन्ति भव्याः ॥ ४३ ॥ जननयनकुमुदचन्द्र ! प्रभाखराः स्वर्गसम्पदो भुक्त्वा ।
ते विगलितमलनिचया अचिरान्मोक्षं प्रपद्यन्ते ॥ ४४ ॥'-युग्मम् क० वि०-हे जिनेन्द्र! हे विभो ! इत्थं विधिवद् ये भव्यास्तव संस्तवं रचयन्तीत्यन्व. यः। कवुक्तिः । हे 'जिनेन्द्र !' जिनानामिन्द्रो जिनेन्द्रस्तस्य सम्बोधनं 'तत्पुरुषः'। हे "वि. भो!' हे स्वामिन् ! । 'इत्थं पूर्वोक्तप्रकारेण । अनेन प्रकारेण इत्थम् । 'विधिवत्' विधिपू. र्वकम् । 'ये भव्याः' भव्यजनाः। 'तव संस्तवं' (भवतः) स्तोत्रम् । 'रचयन्ति' कुर्वन्ति । किलक्षणा भव्याः?।'समाहितधियः' समाहिता-एकाग्र्येण समाधिमती धीर्येषां ते 'बहुव्रीहिः। पुनः किंविशिष्टा भव्याः सान्द्रोल्लसत्पुलककञ्चकिताङ्गभागाः' सान्द्रा-निश्छिद्रा ये उल्लसन्तः -उच्छ्वसन्तः पुलका-रोमाञ्चास्तैः कञ्चुकिताः कञ्चकैरिव विशिष्टा अङ्गभागाः-शरीरप्रदेशाः येषां ते । उल्लसन्तश्च ते पुलकाश्च उल्लसत्पुलकाः 'कर्मधारयः', सान्द्राश्च ते उल्लसत्पुलकाश्च सान्द्रोल्लसत्पुलकाः 'कर्मधारयः', कञ्चुको जात एषामिति कञ्चकिताः, अङ्गस्य भागा अङ्गभागाः 'तत्पुरुषः', सान्द्रोल्लसत्पुलकैः कञ्चकिताः सान्द्रोल्लसत्पुलककञ्चकिताः 'तत्पुरुषः', सान्द्रोल्लसत्पुलककञ्चकिता अङ्गभागा येषां ते (सान्द्रो०) 'बहुव्रीहिः' । पुनः किंविशिष्टा भव्याः? 'त्वद्विम्बनिर्मलमुखाम्बुजबद्धलक्षाः' तव-भवतो बिम्बवत्-चन्द्रमण्डलवत्
। एतत्प्रान्ते क-प्रतौ उल्लेखोऽयम्
"इति महाकविश्रीसिद्धसेनदिवाकरविरचितं श्रीकल्याणमन्दिरस्तोत्रं सम्पूर्णम् । लिखितं गणिसकलवादिकौशिकसहस्रांशुपण्डित श्री १०५१ केसरसागरगणिशिष्यगणिअनन्तसागरलिपीकृतं सकलप्रवरपण्डित-श्रीपश्रीकान्तिसामरगणिप्रसादात् । संवत् १७६३ वर्षे मृगशिर शुदि ८ मी तिथौ सोमवासरे श्रीऋषभनाथ. प्रसादात् ॥"
ग-प्रतौ तु यथा
"इति श्रीकल्याणमन्दिरस्तोत्रं तत्त्वविमलेन लिपीकृतं ॥ शुभं भवतु, कल्याणमस्तु ।" घ-प्रतौ तु एवम्-..
इति श्रीकल्याणमन्दिरस्तोत्रं सम्पूर्ण श्रीसिद्धसेनदिवाकरविरचितं श्रीमारसमुदपत्तने लि. 1 छ । द्वितीयविवृतेः क-प्रतेः प्रान्ते इस्थम्- .
इति श्रीकल्याणमन्दिरस्तोत्रम् ॥ छ॥ श्री ॥छ । संवत् १७०० वर्षे चैत्रवदि तृतीया । -------- २ 'वेष्टिता' इति प्रतिभाति।
भ.२८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408