________________
२१८
कल्याणमन्दिरस्तोत्रम् आदर्शादिगतप्रतिबिम्बवदिति वा निर्मलं यन्मुखाम्बुजं-वक्रकमलं तत्र बद्धलक्षा-बद्धवेध्याः निवेशितदृश इति यावत् । लक्षशब्दो यकारान्तोऽप्यस्ति, "लक्षं लक्ष्यं शरव्यकम्' इत्यभिधान(चिन्तामणि)कोश(का० ३, श्लो० ४४१)वचनात् , “बिम्बं तु प्रतिबिम्बे स्यान्मण्डले बिम्बिकाफले" इत्यनेकार्थे (हैमे का० २, श्लो० ३१७) । मुखमेवाम्बुजं मुखाम्बुजं 'कर्मधारयः', बिम्बवत् निर्मलं विम्बनिर्मलं 'तत्पुरुषः', बिम्बनिर्मलं च तत् मुखाम्बुजं च बिम्बनिर्मलमुखाम्बुजं 'कर्मधारयः', तव बिम्बनिर्मलमुखाम्बुजं त्वद्विम्बनिर्मलमुखाम्बुजं 'तत्पुरुषः', त्वद्विम्बनिर्मलमुखाम्बुजे बद्धं त्वद्विम्बनिर्मलमुखाम्बुजबद्धं 'तत्पुरुषः', त्वद्विम्बनिर्मलमुखाम्बुजबद्धं लक्षं यैस्ते त्वद्विम्बनिर्मलमुखाम्बुजबद्धलेक्षाः 'बहुव्रीहिः' । इति त्रिचत्वारिंशत्तमवृत्तार्थः ॥ ४३ ॥
थे तव स्तोत्रं रचयन्ति ते किं फलं प्राप्नुवन्तीत्याह
हे जननयनकुमुदचन्द्र! तेऽचिरान्मोक्षं प्रपद्यन्ते इत्यन्वयः। कर्चुक्तिः । हे 'जननयनकुमुदचन्द्र!' हे लोकलोचनकुवलयविधो! । जनानां नयनानि जननयनानि 'तत्पुरुषः', जननयनान्येव कुमुदानि जननयनकुमुदानि 'कर्मधारयः', जननयनकुमुदेषु चन्द्रो जननयनकुमुदचन्द्रस्तस्य सम्बोधनं 'तत्पुरुषः। 'ते' भव्याः । 'अचिरात्' क्षणेन । 'मोक्षं' अनन्तज्ञान१दशेनरसुख ३वीये४चतुष्टयरूपां सिद्धिम् । 'प्रपद्यन्ते' प्राप्नुवन्ति । किं कृत्वा? 'भुक्त्वा' अनुभूय । काः कर्मतापन्नाः ? 'स्वर्गसम्पदः' स्वर्गस्य-देवलोकस्य सम्पदः-विभूतथः । स्वर्गस्य सम्पदः स्वर्गसम्पदः । 'तत्पुरुषः' (ताः)। किंलक्षणाः स्वर्गसम्पदः? 'प्रभास्वराः' प्रकर्षेण दीप्यमानाः । प्रकर्षण भास्वराः प्रभास्वराः 'तत्पुरुषः । ते किलक्षणाः ? 'विगलितमलनिचयाः' विगलितो-विगतो मलस्य-पापस्य निचयः-समूहो येभ्यस्ते । मलस्य निचयो मलनिचयः 'तत्पुरुषः', विगलितो मलनिचयो येभ्यस्ते विगलितमलनिचयाः 'बहुप्रीहिः' । “मलस्त्वधे । किट्टे कदर्ये विष्ठायाम्" इत्यनेकार्थे (हैमे का० २, श्लो० ५१०५११)। जननयनकुमुदचन्द्रेति विशेषणं वदता स्तोत्रका कविना दीक्षासमये श्रीगुरुवृद्धवादिसूरिदत्तं कुमुदचन्द्रेतिरूपं स्वनाम ज्ञापितं द्रष्टव्यम् । अत्र च स्तोत्रे महाकवि-श्रीसिद्धसेनदिवाकरबिरचितत्वात् प्रायः प्रतिवृत्तं मन्त्राः सम्भाव्यन्ते, ते तथाविधानाया. भावात् नामिहिताः, स्वयमूह्यास्ते सुगुरोः प्रसादादिति । अत्र च स्तवे त्रिचत्वारिंशत्काव्येषु वसन्ततिलकाच्छन्दः, तल्लक्षणं चेदम्-"ख्याता वसन्ततिलका तभजा जगौ गः" इति; प्रान्तकान्ये त्वार्याच्छन्दश्च, तल्लक्षणमप्येवं (वृत्तरत्नाकरे)
"लक्ष्मैतत् सप्त गणा गोपेता भवति नेह विषमे जः। षष्ठोऽयं न लघुर्वा प्रथमेऽर्धे नियतमार्यायाः ॥१॥
१-२ लक्षस्थाने लक्ष्यशब्दस्य प्रयोगः घ-प्रतौ।.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org