Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 332
________________ श्रीसिद्धसेनदिवाकरकृतम् २०७ तस्मिन् । (मुनीनामीशः मुनीशः, तत्सं० मुनीश !) श्रवणयोर्गोचरः श्रवणगोचरः, तस्य भावः श्रवणगोचरता ताम् । पवित्रश्चासौ मन्त्रश्च पवित्रमन्त्रः, गोत्रमेव पवित्रमन्त्रः गोत्रपवित्रमन्त्रः तस्मिन् गोत्रपवित्रमन्त्रे । विपदेव विषधरी विपद्विषधरी । इति पञ्चत्रिंशत्तमवृत्तार्थः ॥ ३५ ॥ The poet commences self-examination and resorts to repentance. Oh Lord of the saints ! I do not believe that Thou hast (Thy name has) ever come within the range of my ears, in this endless ocean of existence; otherwise, can the venemous reptile of disasters approach (me), after the pure incantation (in the form) of thy appellation has been listened to (by me)? (35) जन्मान्तरेऽपि तव पादयुगं न देव ! मन्ये मया महितमीहितदानदक्षम् । तेनेह जन्मनि मुनीश ! पराभवानां जातो निकेतनमहं मथिताशयानाम् ॥ ३६ ॥ क. वृ० हे देव! अहमेवं मन्ये-एवं सम्भावयामि । ईहितदानदक्षं तव पादयुगं जन्मान्तरेऽपि मया न महितमित्यन्वयः। कर्मोक्तिः।'ईहितदानदक्षं वाञ्छितवितरणप्रवीणम् । ईहितं च तद् दानं च ईहितदानं 'कर्मधारयः', ईहितदाने दक्षं ईहितदानदक्षं 'तत्पुरुषः। 'तव' भवतः। 'पादयुगं क्रमद्वन्द्वम् । पादयोयुगं पादयुगे 'तत्पुरुषः' । 'जन्मान्तरेऽपि' भवान्तरेऽपि । एकस्मात् जन्मनो अन्यजन्म जन्मान्तरं तस्मिन् । 'न महितं' -न पूजितम् । हे 'मुनीश!' मुनीनामीशो मुनीशः 'तत्पुरुषः तस्य सम्बोधनम् । तेन मथिताशयानां पराभवानां-उपद्रवाणां निकेतनमिह जन्मनि अहं जातः, अस्मीति शेषः, अन्वयः । कर्चुक्तिः । तेन' कारणेन । 'मथिताशयानां' व्यथितचित्तानाम् । मथित आशयो यैस्ते मथिताशयाः 'बहुव्रीहिः तेषाम् । पराभवानाम् । 'निकेतनं' गृहम् । 'इह' अत्र । 'जन्मनि' भवे । अहं जातोऽस्मि । तव पादपूजको हि पराभवभवनं न स्यादेव । इति षट्त्रिंशत्तमवृत्तार्थः ॥ ३६॥ मा०वि०-जन्मान्तरेऽपीति । हे देव! अहं मन्ये-जानामि । जन्मान्तरेऽपि मया तव पादयुगं न महितं-न पूजितम् । 'महितम्' इति क्रियापदम् । केन का ? 'मया' । कथम् ? 'न' । किं कर्मतापन्नम् ? 'पादयुगम्' । कस्य ? 'तव' । कस्मिन् ? 'जन्मान्तरे'। कथम् ? 'अपि' । एकस्माजन्मनोऽन्यजन्म जन्मान्तरं तस्मिन् , अन्यजन्मन्यपि । पादयुगं किंलक्षणम् ? 'ईहितदानदक्षम्' ईहितं-वाञ्छितं यद् दानं तत्र दक्षम् । हे मुनीश! . 'काव्यार्थोपनिषत्' इति ख-पाठः। २ अन्वयोऽयम्' इति घ-पाठः। ३ 'वृत्तिभावार्थः' इति घ-पाठ। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408