________________
श्रीसिद्धसेनदिवाकरकृतम्
२०७ तस्मिन् । (मुनीनामीशः मुनीशः, तत्सं० मुनीश !) श्रवणयोर्गोचरः श्रवणगोचरः, तस्य भावः श्रवणगोचरता ताम् । पवित्रश्चासौ मन्त्रश्च पवित्रमन्त्रः, गोत्रमेव पवित्रमन्त्रः गोत्रपवित्रमन्त्रः तस्मिन् गोत्रपवित्रमन्त्रे । विपदेव विषधरी विपद्विषधरी । इति पञ्चत्रिंशत्तमवृत्तार्थः ॥ ३५ ॥
The poet commences self-examination and resorts to repentance.
Oh Lord of the saints ! I do not believe that Thou hast (Thy name has) ever come within the range of my ears, in this endless ocean of existence; otherwise, can the venemous reptile of disasters approach (me), after the pure incantation (in the form) of thy appellation has been listened to (by me)? (35)
जन्मान्तरेऽपि तव पादयुगं न देव !
मन्ये मया महितमीहितदानदक्षम् । तेनेह जन्मनि मुनीश ! पराभवानां
जातो निकेतनमहं मथिताशयानाम् ॥ ३६ ॥ क. वृ० हे देव! अहमेवं मन्ये-एवं सम्भावयामि । ईहितदानदक्षं तव पादयुगं जन्मान्तरेऽपि मया न महितमित्यन्वयः। कर्मोक्तिः।'ईहितदानदक्षं वाञ्छितवितरणप्रवीणम् । ईहितं च तद् दानं च ईहितदानं 'कर्मधारयः', ईहितदाने दक्षं ईहितदानदक्षं 'तत्पुरुषः। 'तव' भवतः। 'पादयुगं क्रमद्वन्द्वम् । पादयोयुगं पादयुगे 'तत्पुरुषः' । 'जन्मान्तरेऽपि' भवान्तरेऽपि । एकस्मात् जन्मनो अन्यजन्म जन्मान्तरं तस्मिन् । 'न महितं' -न पूजितम् । हे 'मुनीश!' मुनीनामीशो मुनीशः 'तत्पुरुषः तस्य सम्बोधनम् । तेन मथिताशयानां पराभवानां-उपद्रवाणां निकेतनमिह जन्मनि अहं जातः, अस्मीति शेषः, अन्वयः । कर्चुक्तिः । तेन' कारणेन । 'मथिताशयानां' व्यथितचित्तानाम् । मथित आशयो यैस्ते मथिताशयाः 'बहुव्रीहिः तेषाम् । पराभवानाम् । 'निकेतनं' गृहम् । 'इह' अत्र । 'जन्मनि' भवे । अहं जातोऽस्मि । तव पादपूजको हि पराभवभवनं न स्यादेव । इति षट्त्रिंशत्तमवृत्तार्थः ॥ ३६॥
मा०वि०-जन्मान्तरेऽपीति । हे देव! अहं मन्ये-जानामि । जन्मान्तरेऽपि मया तव पादयुगं न महितं-न पूजितम् । 'महितम्' इति क्रियापदम् । केन का ? 'मया' । कथम् ? 'न' । किं कर्मतापन्नम् ? 'पादयुगम्' । कस्य ? 'तव' । कस्मिन् ? 'जन्मान्तरे'। कथम् ? 'अपि' । एकस्माजन्मनोऽन्यजन्म जन्मान्तरं तस्मिन् , अन्यजन्मन्यपि । पादयुगं किंलक्षणम् ? 'ईहितदानदक्षम्' ईहितं-वाञ्छितं यद् दानं तत्र दक्षम् । हे मुनीश! . 'काव्यार्थोपनिषत्' इति ख-पाठः। २ अन्वयोऽयम्' इति घ-पाठः। ३ 'वृत्तिभावार्थः' इति घ-पाठ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org