________________
२०६
कल्याणमन्दिरस्तोत्रम् .. अथ प्राग्वर्णितस्वरूपस्य विज्ञापयितुं च योग्यस्य देवाधिदेवस्याग्रे कविः स्वात्मविषयं विज्ञाप्यं प्रार्थनीयं च यत् स्वमनसि वर्तते तत् काव्याष्टकेन वर्णयन्नाह
अस्मिन्नपारभववारिनिधौ मुनीश!
मन्ये न मे श्रवणगोचरतां गतोऽसि । आकर्णिते तु तव गोत्रपवित्रमन्त्रे
किं वा विपद्विषधरी सविधं समेति ? ॥ ३५ ॥ क. वृ०-हे 'मुनीश'! मुनीनामीशो मुनीशः 'तत्पुरुषः' तस्य सम्बोधनम् । अहमेवं मन्ये-एवं सम्भावयामि । अस्मिन्नपारभववारिनिधौ मे श्रवणगोचरतां न गतोऽसीत्यन्वयः। कवुक्तिः । हे पारगत! 'अस्मिन् प्रत्यक्षे । 'अपारभववारिनिधौ' अतिविस्तीर्णसंसारसमुद्रे । भव एव वारिनिधिर्भववारिनिधिः ('कर्मधारयः'), न विद्यते पारं यस्य सोऽपारः ('बहुव्रीहिः'), अपारश्चासौ भववारिनिधिश्च अपारभववारिनिधिः 'कर्मधारयः' तस्मिन् । 'मे' मम । 'श्रवणगोचरतां' कर्णविषयताम् । गोचरस्य भावो गोचरता, श्रवणयोः गोचरता श्रवणगोचरता “तत्पुरुषः' ताम् । त्वं 'न गतोऽसि । न श्रुतोऽसीति भावः । तु-पुनः तव गोत्रपवित्रमन्त्रे आकर्णिते (सति) किं वा विपद्विषधरी सविधं समेति ? अपि तु नेति । कर्चुक्तिः । ' तव' भवतः । 'गोत्रपवित्रमन्त्रे' नामपावनमन्त्रे। पवित्रश्चासौ मन्त्रश्च पवित्रमन्त्रः 'कर्मधारयः,' गोत्रमेव पवित्रमन्त्री गोत्रपवित्रमन्त्रः 'कर्मधारयः' तस्मिन् । 'आकर्णिते' श्रुते सति । 'वा' अथवा । किम् । “विपद्विषधरी' आपत्सर्पिणी । विषं धरतीति विषधरी, विपदेव विषधरी विपद्विषधरी 'कर्मधारयः' । 'सविधं' समीपम् । 'समेति' समागच्छति । यदि तव नाम श्रुतमभविष्यत् तदा विपद् नायास्यदित्यर्थः । इति पञ्चत्रिंशत्तमवृत्तभावार्थः ॥ ३५ ॥
मा०वि०-अस्मिन्नपारेति । हे मुनीश! अहं मन्ये-जाने। 'मन्ये' इति क्रियापदम् । कः कर्ता? 'अहम्' । किं मन्ये तदाह-अस्मिन् अपारभववारिनिधौ त्वं श्रवणगोचरतां न गतोऽसि । 'असि' इति क्रियापदम् । कः कर्ता ? 'त्वम्' । कां कर्मतापन्नाम् ? 'श्रवणगोचरतां' कर्णविषयताम् । कथम् ? 'न'। कस्मिन् ? 'अपारभववारिनिधौ' । कस्मिन् ? 'अस्मिन् । तुरिति विशेषे । वा-अथवा तव गोत्रपवित्रमन्त्रे-नामपवित्रमन्त्रे आकर्णिते किं विपद्विषधरी सविधं समेति ?-समागच्छति ? अपि तु न । 'समेति' इति क्रियापदम् । का की ? 'विपद्विषधरी' आपत्सर्पिणी । किं कर्मतापन्नम् ? 'सविधं' समीपम् । कस्मिन् सति ? 'गोत्रपवित्रमन्त्रे' सति । किम्भूते ? 'आकर्णिते' (सति) श्रुते सति । कस्य ? 'तव' ॥ __ भव एव वारिनिधिः भववारिनिधिः, अपारश्चासौ भववारिनिधिश्च अपारभववारिनिधिः
. विज्ञपयितुं-प्रार्थयितुं' इति घ० पाठः । २ 'विज्ञप्यं' इति घ-पाठः । ३ 'भाइ' इति घ-पाठः । ४ 'वृत्वार्थः' इति घ-पाठः। ५ 'किम्भूते' इति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org