________________
श्रीसिद्धसेनदिवाकरकृतम्
२०५ रुषः तस्य सम्बोधनम्।त एव धन्याः-प्रशस्याः, स्युरिति शेषः, इत्यन्वयः। कक्तिः । ते के इत्याह-हे विभो! भुवि ये जन्मभाजः त्रिसन्ध्यं तव पादद्वयं विधिवदाराधयन्तीत्यन्वयः। कर्चुक्तिः । 'भुवि' पृथिव्याम् । 'जन्मभाजः' देहिनः । जन्म, भजन्तीति जन्मभाजः 'तत्पुरुषः' । 'त्रिसन्ध्यं' त्रिकालम् । तिसृणां सन्ध्यानां समाहारः त्रिसन्ध्यम् 'द्विगुः' । 'तव' भवतः । 'पादद्वयं' चरणयुगलम् । पादयोर्द्वयं पादद्वयं 'तत्पुरुषः', पुनद्वितीयाज्ञापनाय तदिति । विधिवद्' विधिपूर्वकम् । 'आराधयन्ति' सेवन्ते । किंलक्षणा जन्मभाजः? 'विधुतान्यकृत्याः' त्यक्तान्यकार्याः । अन्यानि च तानि कृत्यानि च अन्य. कृत्यानि 'कर्मधारयः', विधुतानि अन्यकृत्यानि यैस्ते विधुतान्यकृत्याः 'बहुव्रीहिः' । पुनर्जन्मभाजः किंविशिष्टाः ? 'उल्लसत्पुलकपक्ष्मलदेहदेशाः'प्रोल्लसद्रोमाञ्चेन पक्ष्मवच्छरीरभागा येषां ते। देहत्य देशाः देहदेशाः 'तत्पुरुषः', उल्लसंश्चासौ पुलकश्चोल्लसत्पुलकः 'कर्मधारयः', उल्लसत्पुलकेन पक्ष्मला उल्लसत्पुलकपक्ष्मलाः 'तत्पुरुषः', उल्लसत्पुलकपक्ष्मला देहदेशा येषां ते उल्लस वहुव्रीहिः'। कया? 'भक्त्या भावेन । इति चतुस्त्रिंशत्तमवृत्तार्थः ॥ ३४ ॥
मा०वि०-धन्यास्त एवेति । हे भुवनाधिप: ते एव भव्या धन्या वर्तन्ते । 'वर्तन्ते' इति क्रियापदम् । के कर्तारः? 'ते' । कथम् ? 'एव' । ते के ? 'जन्मभाजः' भविनः । ये हे विभो! त्रिसन्ध्यं तव पादद्वयम् आराधयन्ति । 'आराधयन्ति' इति क्रियापदम् । के कर्तारः? 'जन्मभाजः' । जन्मभाजः के ? 'ये'। किं कर्मतापन्नम् ? 'पादद्वयम्'। कस्य ? 'तव' । कस्याम् ? 'भुवि' पृथिव्याम् । जन्मभाजः किम्भूताः? 'विधुतान्यकृत्याः' विधुतानि -त्यक्तानि अन्यानि कृत्यानि-कार्याणि यैस्ते । पुनः किम्भूताः? 'उल्लसत्पुलकपक्ष्मलदेहदेशा' उल्लसन्तश्च ते पुलकाश्च उल्लसत्पुलकाः, उल्लसत्पुलकैः पश्मलो देहदेशो-देहावयवो येषां ते । कया? 'भक्त्या' कृत्वा । कथम् ? 'विधिवत् ॥
भुवनानां-जगताम् अधिपो भुवनाधिपः तस्य सम्बोधनम् । तिसृणां सन्ध्यानां समाहारः त्रिसन्ध्यम् 'अव्ययीभावः' त्रिसन्ध्याशब्दः 'अमव्ययीभावस्यातोऽपञ्चम्याः' (सिद्ध० ३-२-२) इति अम् क्लीये 'हखः' (सिद्ध०४-१-३९) अव्ययत्वात् सेर्लोपः । पादयोर्द्वयं पादद्वयं (तत्)। जन्मानि भजन्तीति जन्मभाजः। इति चतुस्त्रिंशत्तमकाव्यार्थरहस्यम् ॥३४॥
Those who devoie their time in worshipping God are fortunute.
Oh Lord of the universe ! blessed are those persons alone who, by leaving aside their other activities worship here the pair of Thy feet, oh mighty one, thrice a day ( dawn, noon and sunset) according to the prescribed rules, with the different parts of their bodies covered up with bristling horripilation of devo; tion. (34)
१ एतत्स्थाने 'द्विगुसमासः पादयो यं' इति ख-पाठः । २ 'व्याख्यार्थ०' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org