________________
२०४
.. कल्याणमन्दिरस्तोत्रम् ईरितः-विकुर्य प्रेरितः । 'ईरितः' इति क्रियापदम् । केन का? 'तेन' । कः कर्मतापन्नः? 'प्रेतव्रजः'। प्रति? 'भवन्तं' त्वां प्रति । कथम् ? 'अपि' । किम्भूतः प्रेतव्रजः-प्रेतसमूहः ? 'ध्वस्तोर्ध्वकेशविकृताकृतिमर्त्य मुण्डमालम्बभृद्भयदवऋविनियंदग्निः' ध्वस्ता न्यग्रोधमञ्जय इव प्रत्यङ्कुरीकृता ऊर्ध्वकेशा यस्य स ध्वस्तोर्ध्वकेशः १, विकृता-विरूपा आकृतिः-आकारो यस्य स विकृताकृतिः २, मानां-मनुष्याणां मुण्डानि-मस्तकानि तेषां प्रालम्बो-लम्बनकं तं बिभतीति मर्त्यमुण्डमालम्बभृत् ३, भयं ददातीति भयदः ४, वात्-मुखात् विनिर्यन् अग्निर्यस्य स वविनिर्यदग्निः ५, ध्वस्तोर्ध्वकेशश्चासौ विकृताकृतिश्च ध्वस्तोर्ध्वकेशविकृताकृतिः, स चासौ मर्त्यमुण्डप्रालम्बभृच्च ध्वस्तो०, स चासौ भयदश्च ध्वस्तो भयदः, ध्वस्तो भयदश्चासौ वक्रविनियंदग्निश्च ध्वस्तो भयदवऋविनियंदग्निः। स प्रेतवजः अस्य-कमठस्य प्रतिभवं भवदुःखहेतुः अभवत्-भवति स्म । 'अभवत्' इति क्रियापदम् । कः कर्ता? 'सः'। किंलक्षणः ? भवानां-जन्मनां दुःखानि तेषां हेतुः-कारणम् । कथम् ? भवं भवं प्रति प्रतिभवं, तीर्थकृदाशातनाया अनन्तदुःखदायिसंसारवृद्धिहेतुत्वात् । कस्य ? 'अस्य' दैत्यस्येत्यर्थः॥
प्रेतानां-भूतानां व्रजः प्रेतवजः । इदम्शब्दः षष्ठी उस् 'आ ढेरः' (सिद्ध०२-१४१), 'लुगस्यादेत्यपदे' (सिद्ध० २-१-११३), 'दो मः स्यादौ' (सिद्ध० २-१-३९), 'टाडसोरिनस्यौ' (सिद्ध० १-४-५), 'अनक्' (सिद्ध० २-१-३६) इति सूत्रेण इमस्य अ आदेशे अस्य इति जातम् । 'भू सत्तायां' (सिद्ध० धा०) भूधातुः 'ह्यस्तनी दिव्' (सिद्ध० ३-३-९), 'अड् धातोरादिस्तिन्यां चामाडा' (सिद्ध० ४-४-२९) इति अडागमः, शव् 'गुणः०' (सिद्ध०३-३-२)अव इति अभवत् जातम् । इति त्रयस्त्रिंशत्तमकाव्यार्थदिङ्मात्रम् ॥३३॥
Even that very troop of the ghosts that was sent against Thee by him (Kamatha)-the ghosts who wore (round their necks) garlands (reaching their chests of skulls of human beings, with dishevelled and erect hair and distorted features, and who were belching fire from their dreadful mouths became the cause of mundane sufferings in every birth in his ( Kamatha's ) case. ( 33 )
अथ ये जिनमाराधयन्ति तेषां प्रशंसां कुर्वन्नाह
धन्यास्त एव भुवनाधिप! ये त्रिसन्ध्य.. माराधयन्ति विधिवद् विधुतान्यकृत्याः। भक्त्योल्लसत्पुलकपक्ष्मलदेहदेशाः ।।
पादद्वयं तव विभो! भुवि जन्मभाजः ॥ ३४ ॥ क० ०-हे 'भुवनाधिप'! हे जगत्स्वामिन् ! । भुवनानामधिपो भुवनाधिपः 'तत्पु. 7 दिग्मानम्' इति ख-पाठः।।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org