________________
श्रीसिद्धसेनदिवाकरकृतम्
ध्वस्तोर्ध्वकेशविकृताकृतिमर्त्यमुण्डप्रालम्बभृद्भयदवक्रविनिर्यदग्निः । प्रेतव्रजः प्रति भवन्तमपीरितो यः सोऽस्याभवत् प्रतिभवं भवदुःखहेतुः ॥ ३३ ॥
Jain Education International
क० पृ० - हे प्रभो ! दैत्येन यः प्रेतत्रजो भवन्तं प्रति ईरित इत्यन्वयः । कर्मोक्तिः । 'प्रेतत्रजः' प्रेतसमूहः । प्रेतानां व्रजः प्रेतव्रजः 'तत्पुरुषः' | 'भवन्तं प्रति' त्वां प्रति । दैत्येनेति पूर्ववृत्तादत्रापि सम्बध्यते । 'ईरितः ' प्रेरितः । अपिशब्दः समुच्चये । स चैवं युज्यते न केवलं पूर्वकाव्योक्तं वारि दुःखाय जातं, किन्तु सोऽस्य प्रतिभवं दुःखहेतुरभवदित्यन्वयः । कर्तर्युक्तिः । स प्रेतत्रजोऽपि । 'अस्य' दैत्यस्य । 'प्रतिभवं' प्रतिजन्म । भवं भवं प्रति प्रतिभवं 'अव्ययीभावः' । 'भवदुःखहेतुः' संसारक्लेशहेतुः । भवस्य दुःखानि भवदुःखानि 'तत्पुरुषः', भवदुःखानां हेतुर्भवदुःखहेतुः 'तत्पुरुषः' । 'अभवत्' आसीत् । प्रेतव्रजः किंलक्षणः? ‘ध्वस्तोर्ध्वकेश विकृताकृतिमर्त्यमुण्डप्रालम्ब भृद्भयदवत्रविनिर्यदग्निः' ध्वस्ता - अवस्रंसिता ऊर्ध्वकेशा येन स ध्वस्तोर्ध्वकेशः १, विकृता - रौद्रत्वेन विरूपा आकृति:-आकारो यस्य स विकृताकृतिः २, मर्त्यानां नराणां यानि मुण्डानि तेषां प्रालम्बी-लम्बनकं तं बिभतींति मर्त्यमुण्डप्रालम्बभृत् ३, भयं ददातीति भीमत्वेन भयदः ४, वक्राद् - मुखात् विनिर्यन्- निर्गच्छन् अग्निर्यस्य स वनविनिर्यदग्निः ५, ततः पञ्चानामपि विशेषणानां 'कर्मधारयः' समासः । ध्वस्ता ऊर्ध्वकेशा येन स ध्वस्तोर्ध्वकेशः 'बहुव्रीहिः', विकृता आकृतिर्यस्य स विकृताकृतिः 'बहुव्रीहिः', मर्त्यानां मुण्डानि मर्त्यमुण्डानि 'तत्पुरुषः', मर्त्यमुण्डानां प्रालम्बी मर्त्यमुण्डप्रालम्बः 'तत्पुरुषः', मर्त्यमुण्डप्रालम्बं बिभतीति मर्त्यमुण्डप्रालम्बभृत् 'तत्पुरुषः', भयं ददातीति भयदः 'तत्पुरुषः', विनिर्यश्चासावग्निश्च विनिर्यदग्निः 'कर्मधारयः', वक्राद् विनिर्यदग्निर्यस्य स वक्रविनिर्यदग्निः 'बहुव्रीहिः', भयदश्चासौ वक्रविनिर्यदग्निश्च भयदवनविनिर्यदग्निः 'कर्मधारयः', मर्त्यमुण्डप्रालम्बभृच्चासौ भयदवत्रविनिर्यदनिश्च मर्त्यमुण्डप्रालम्बभृद्भयदवक्र विनिर्यदग्निः 'कर्मधारयः', विकृताकृतिश्चासौ मर्त्यमुण्डप्रालम्बभृद्भयदवक्रविनिर्यदग्निश्च विकृत कृतिमर्त्य मुण्डप्रालम्बभृद्भयदवक्त्रविनिर्यदग्निः 'कर्मधारयः', ध्वस्तोर्ध्वकेशश्चासौ विकृताकृतिमर्त्यमुण्डप्रालम्ब भृद्भयदवत्रविनिर्यदग्निश्च ध्वस्तोर्ध्वकेशविकृताकृति मर्त्यमुण्डमालम्बभृद्भयदवत्र विनिर्यदग्निः 'कर्मधारयः' । इति त्रयस्त्रिंशत्तमवृत्तार्थः ॥ ३३ ॥
२०३
मा० वि०-ध्वस्तोर्ध्वकेशेति । हे जिन ! यस्तेन दैत्येन भवन्तं प्रति प्रेतत्रजोऽपि १ 'कर्मुक्तिः' इति घ-पाठः । २ 'ऊर्ध्व केशा' इति व पादः । ३ ' प्रालम्बनकं' इति घ- पाठः । ४ 'विशेषाणां' इति घ- पाठः ।
For Private & Personal Use Only
www.jainelibrary.org