Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
कल्याणमन्दिरस्तोत्रम् आकर्णितोऽपि महितोऽपि निरीक्षितोऽपि
नूनं न चेतसि मया विधृतोऽसि भक्त्या। जातोऽस्मि तेन जनबान्धव ! दुःखपात्रं
यस्मात् क्रियाः प्रतिफलन्ति न भावशून्याः ॥ ३८॥ क० वृ०-हे जिन! क्वापि भवे मया न त्वं आकर्णितोऽप्यसि-श्रुतोऽप्यसीत्यन्वयः । कवुक्तिः । तथा मया त्वं न महितोऽप्यसि-न पूजितोऽप्यसि । कठुक्तिः। तथा मया त्वं न निरीक्षितोऽप्यसि-न दृष्टोऽप्यसि । कवुक्तिः। 'नूनं' निश्चयेन । मया 'चेतसि' हृदये । 'भक्तया' भावेन । न विधृतोऽसि कालसौकरिकेनेव श्रीवीरः । हेतुमत्राह-हे 'जनबान्धव !' हे लोकमित्र !, "बान्धवो बन्धुमित्रयोः" इति अनेकार्थ( हैम० का० ३, श्लो० १३०७)वचनात् । जनानां बान्धवो जनबान्धवः 'तत्पुरुषः' तस्य सम्बोधनं हे जनबान्धव!।तेन कारणेन अहं दुःखपात्रं-दुःखास्पदं, दुःखानां पात्रं दुःखपात्रं 'तत्पुरुषः' जातोऽस्मीत्यन्वयः। कवुक्तिः। 'यस्मात्' कारणात्। 'क्रिया' आकर्णनादिकाः। भावशून्याः' भावरहिताः। भावेन शून्या भावशून्याः 'तत्पुरुषः' । 'न प्रतिफलन्ति' नैव प्रतिविशिष्टफलदायिन्यो भवन्ति । इत्यष्टत्रिंशत्तमवृत्तार्थः ॥ ३८॥
मा० वि०-आकर्णितोऽपीति । हे नाथ ! नूनं-निश्चितं मया चेतसि न विधृतोऽसि -न धृतोऽसि । 'असि' इति क्रियापदम् । कः कर्ता ? 'त्वम् । केन को ? 'मया' । त्वं किम्भूतः ? 'विधृतः' विशेषेण धृतो विधृतः । कथम् ? 'न' । कस्मिन् ? 'चेतसि । पूर्वजन्मनीति गम्यते । कया? 'भक्त्या' । त्वं किंलक्षणः ? 'आकर्णितः' श्रुतः श्रवणाभ्याम् । कथम् ? 'अपि' । पुनस्त्वं कीदृशः ? 'महितः' पूजितश्चन्दनादिभिः । कथम् ? 'अपि' । पुनस्त्वं कीदृग् ? 'निरीक्षितः' दृष्टो नयनाभ्याम् । कथम् ? 'अपि'। तत्रार्थे हेतुमाह-हे जनबान्धव ! तेन कारणेन अहं दुःखपात्रं जातोऽस्मि । 'अस्मि' इति क्रियापदम् । का कर्ता ? 'अहम्' । किंलक्षणः? 'दुःखपात्रं' दुःखभाजनम् । केन ? 'तेन' । तत्रार्थेऽपि हेतुमाह-यस्मात् कारणात् भावशून्याः क्रिया न प्रतिफलन्ति-फलवन्त्यो न भवन्ति । 'प्रतिफलन्ति' इति क्रियापदम् । काः कर्व्यः ? 'क्रियाः। किंलक्षणाः ? 'भावशून्या' चित्ता. भिप्रायशून्याः। कस्मात् ? 'यस्मात् ॥
जनानां बान्धव इव जनबान्धवस्तस्य सम्बोधनं हे जनबान्धव! । दुःखानां पात्रं दुःखपात्रम् । भावेन शून्याः भावशून्याः। इति अष्टत्रिंशत्तमकाव्यवृत्तार्थः ॥ ३८॥
. 'काव्यार्थनवनीतम्' इति ख-पाठः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408