________________
श्रीसिद्धसेनदिवाकरकृतम्
१७५ पञ्चमी डसि 'आपो डितां यैयास्यास्याम्' (सिद्ध०१-४-१७) इति यास् आदेशे सस्य रुत्वे विसर्गत्वे च सिद्धिः कर्णिकायाः ॥ इति चतुर्दशकाव्यार्थप्रतीतिः ॥ १४ ॥
Oh Jina! the Yogins always search after Thee, the supreme soul in the interior of their heart-lotus-bud. Or why, is there any other abode for the pure and the unsulliedly splendid lotus-seed than the pericarp?. (14)
अथ जिनस्य ध्यातारोऽपि जिनसदृशा एव जायन्ते इति एतजिनमाहात्म्यं प्रतिपादयन् काव्यत्रयमाह
ध्यानाजिनेश ! भवतो भविनः क्षणेन
देहं विहाय परमात्मदशां व्रजन्ति । तीवानलादुपलभावमपास्य लोके
चामीकरत्वमचिरादिव धातुभेदाः ॥ १५ ॥ क० वृ०-हे जिनेश ! भवतो ध्यानाद् भविनो देहं विहाय परमात्मदशां क्षणेन व्रज. न्तीत्यन्वयः । कर्तर्युक्तिः। जिनानामीशो जिनेशस्तस्य सम्बोधनं हे जिनेश । 'भवतः'तव । 'ध्यानात्' जापात् । 'भविनः' प्राणिनः । भवो विद्यते येषां ते भविनः । 'देह' शरीरम् । 'विहाय' त्यक्त्वा । 'परमात्मदशां' परमब्रह्मावस्थाम् । परमश्चासावात्मा च परमात्मा 'कर्मधारयः', परमात्मनो दशा परमात्मदशा तां तत्पुरुषः' । क्षणेन' क्षणात् । 'व्रजन्ति' प्राप्नुवन्ति । दृष्टान्तमाह-इव-यथा तीव्रानलादुपलभावमपास्य लोके धातुभेदाश्चामीकरत्वमचिराद् व्रजन्ति । कवुक्तिः । 'तीव्रानलात्' प्रबलानियोगात् । तीव्रश्चासावनलश्च तीवानलस्तस्मात् 'कर्मधारयः' । 'उपलभावं' पाषाणत्वम् । उपलस्य भावः उपलभावः तं 'तत्पुरुषः' । 'अपास्य' परित्यज्य । 'लोके' जगति । 'धातुभेदाः' धातुतया प्रसिद्धाः पाषाणविशेषाः । धातूनां भेदा धातुभेदाः 'तत्पुरुषः' । 'चामीकरत्वं' स्वर्णत्वम् । चामीकरस्य भावः चामीकरत्वं तत् । 'अचिरात्' क्षणात् । 'बजन्ति' प्राप्नुवन्ति । इति पञ्चदशवत्तार्थः॥१५॥ ___ मा० वि०-ध्यानादिति । हे जिनेश! भविनो-जन्मिनो भवतः-तव ध्यानात् क्षणेन देहं विहाय-त्यक्त्वा परमात्मदशां व्रजन्ति-गच्छन्ति । 'बजन्ति' इति क्रियापदम् । के कतारः? 'भविनः' । काम् ? 'परमात्मदशां' परब्रह्मावस्थाम् । किं कृत्वा ? 'विहाय' । कं कर्मतापन्नम् ? 'देहम्' । कस्मात् ? 'ध्यानात्' । कस्य ? 'भवतः तव । केन ? 'क्षणेन'। उतार्थ प्रतीतिविषयीकुरुते-इव-यथा धातुभेदा-धातुप्रकाराः तीव्रानलात्-तीवाग्नेरुप
१०मनाह' इति घ-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org