________________
१७४
कल्याणमन्दिरस्तोत्रम् योगिनः ('बहुव्रीहिः')। 'हृदयाम्बुजकोशदेशे' हृदयकमलकर्णिकामध्यदेशे । हृदयमेवाम्बुजं हृदयाम्बुजं 'कर्मधारयः', हृदयाम्बुजस्य कोशो हृदयाम्बुजकोशः 'तत्पुरुषः', हृदयाम्बुजकोशस्य देशो हृदयाम्बुजकोशदेशः 'तत्पुरुषः' तस्मिन् । 'परमात्मरूपं' परब्रह्ममयम् । परमश्चासावात्मा च परमात्मा 'कर्मधारयः', परमात्मैव रूपं यस्य स परमात्मरूपस्तं 'बहुव्रीहिः । एवंविधं त्वामन्वेषयन्ति-मार्गयन्ति, ज्ञानचक्षुषा विलोकयन्तीत्यर्थः । नन्विति प्रश्ने । यदिवा पूतस्य निर्मलरुचेः अक्षस्य कर्णिकायाः अन्यत् पदं-स्थानं किं सम्भवि ? अपि तु न । कर्तर्युक्तिः । 'यदिवा' अथवा । 'पूतस्य' पवित्रस्य । 'निर्मलरुचेः' विमलकान्तेः । निर्मला रुचिर्यस्य स निर्मलरुचिस्तस्य 'बहुव्रीहिः' । एवंविधस्य अक्षस्यकमलबीजस्य कर्णिकाया अन्यत् पदं-स्थानं किं सम्भवि?। सम्भवतीत्येवंशीलं सम्भवि । अशुद्धा क्रिया । कर्णिकेव अक्षस्य स्थानं स्यात् , नान्यदिति भावः । मालवदेशे हि पद्मस्य वीजं अक्ष इति व्यपदिश्यते जनैरिति महाकविना तथैवोचे । त्वमपि सकलकर्ममलापगमात् प्रकटीभूतजीवस्वरूपः । पूतो-निर्मलः चारुरुचिश्चासि, अतस्तवापि योगिहृदयाम्बुजान्नापरं स्थानं भवेत् । इति चतुर्दशवृत्तार्थः॥ १४ ॥
मा० वि०-त्वां योगिन इति । हे जिन! त्वां प्रति योगिनः सदा हृदयाम्बुजकोशदेशे परमात्मरूपं अन्वेषयन्ति-विलोकयन्ति । 'अन्वेषयन्ति' इति क्रियापदम् । के कर्तारः? 'योगिनः' ध्यानिनः। कं कर्मतापन्नम् ? 'त्वाम् । किंलक्षणम् ? 'परमात्मरूपं' परब्रह्मरूपम् । कस्मिन् ? हृदयमेवाम्बुज-कमलं तस्य कोशः-कर्णिका तस्य देशो-भागः तस्मिन् ('हृदया०')। यदिवेति युक्तार्थे । नूनम् इति सम्भावनायाम् । पूतस्य निर्मलरुचेरक्षस्य कर्णिकायाः सकाशात् किं अन्यत् पदं सम्भवि? अपि तु न सम्भवि-न सम्भवशीलम् । 'सम्भवि' इति क्रियापदम् । किं कर्तृ? 'पदं स्थानम् । किम् ? 'अन्यत्' पृथक् । कस्याः ? 'कर्णिकायाः' बीजकोशात् । कस्य ? 'अक्षस्य' कमलबीजस्य, लोके कमलकाकडीति प्रसिद्धस्य । अक्षस्य कथम्भूतस्य ? 'पूतस्य' पवित्रस्य । पुनः किंलक्षणस्य 'निर्मलरुचेः' विमल. कान्तेः । त्वमपि चाक्षः पूतश्च निर्मलरुचिश्च तेन तवापि योगिनां हृदयाम्बुजकोशदेशे एव स्थितियुक्तिमती । अक्षशब्देन जीवः कमलवीजं च, तेनार्थद्वैविध्येन व्याख्यानं शब्दच्छलेन॥
परमश्चासौ आत्मा च परमात्मा, परमात्मनो रूपं-स्वरूपं तम् (तत्)। 'पूगश् पवने' (सिद्ध० धा०), क्तप्रत्ययः, षष्ठयां पूतस्य । निर्मला रुचिर्यस्य स निर्मलरुचिस्तस्य । अन्यशब्दस्य प्रथमा सेः 'पञ्चतोऽन्यादेरनेकतरस्य दः' इति (सिद्ध०१-४-५८) सूत्रेण दुत्वनिष्पत्तिः । सम्भवोऽस्यास्तीति सम्भवि नलोपे सेर्लोपे च सिद्धिः । कर्णिकाशब्दः
१ कर्चुक्तिः इति घ-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org