________________
श्रीसिद्धसेनदिवाकरकृतम्
१७३
'व्रत' । कथम् ? 'किल' । उक्तमर्थ दृष्टान्तयति-यदिवेति पक्षान्तरे । अमुत्र लोके - अस्मिन् लोके शिशिराऽपि हिमानी नीलदुमाणि विपिनानि प्रति किं न प्लोषति ? अपि तु लोष - स्येव - दहत्येव । 'प्लोषति' इति क्रियापदम् । कथम् ? 'न' । का कत्रीं ? 'हिमानी' महत् हिमं हिमानी । कानि कर्मतापन्नानि ? 'विपिनानि' वनानि । हिमानी किंलक्षणा ? 'शिशिरा' शीतला । कथम् ? 'अपि' । विपिनानि किंलक्षणानि ? नीला द्रुमा येषु तानि 'नीलमणि' ॥
निरपूर्वः 'असूच क्षेपणे' (सिद्ध० धा० ) असू (धातुः) क्तप्रत्ययः प्रथमा सिः निरस्तः इति सिद्धम् । ध्वंसूङ् धातुः, क्तप्रत्ययः, 'नो व्यञ्जनस्यानुदितः' (सिद्ध० ४-२-४५ ) इति नलोपः, जसि ध्वस्ताः इति सिद्धम् । कर्माण्येव चौराः कर्मचौराः । 'उषू लुष दाहे ( सिद्ध० धा० ) टुपधातुः 'वर्तमाना तिव्' (सिद्ध० ३ - ३ - ६ ) शबू 'लघोरुपान्त्यस्य' ( सिद्ध० ४ - ३ - ४ ) ' गुणः ' ( सिद्ध० ३-३-२ ) प्लोषति । अदसूशब्दः सप्तम्यर्थे त्रप्र त्ययः 'आ द्वेरः' (सिद्ध० २-१-४१ ) सस्य अः, 'लुगस्यादेत्यपदे' (सिद्ध० २-१११३) पूर्वस्याकारस्य लोपः, 'मोऽवर्णस्य' (सिद्ध० २ - १ - ४५ ) इति दस्य मः, 'मादुव र्णोऽनु' (सिद्ध० २-१-४७ ) इति अकारस्य उकारः सप्तमी ङिलोपोऽव्ययत्वात् । नीलद्रुमशब्द: जस् 'नपुंसकस्य शिः ' ( सिद्ध० १-४ - ५५ ) इति शिरादेशः, 'स्वराच्छौ' ( सिद्ध ०१-४-६५ ) इति नोऽन्तः, 'नि दीर्घः' ( सिद्ध० १ - ४-८५) नकारस्य णकारः नीलमणीति सिद्धम् । तथैव विपिनानीति ज्ञेयम् । महद् हिमं हिमानी । हिमशब्दात् 'यवयवनारण्य हिमाद् दोषलिप्यु महत्त्वे' (सिद्ध०२ - ४ - ६५ ) इति ङीप्रत्ययः आनागमश्च सिलोपे हिमानीति जातम् ॥ इति त्रयोदशकाव्यार्थः ॥ १३ ॥
How couldst Thou indeed (manage to) destroy Karman-thieves, when Thou, oh Omnipresent one! hadst at the very outset annihilated anger ? Or why, does not the mass of snow though cold burn forests having dark-blue (or fig) trees ? (13)
34 30
त्वां योगिनो जिन ! सदा परमात्मरूपमन्वेषयन्ति हृदयाम्बुजकोशदेशे ।
पूतस्य निर्मलरुचेर्यदिवा किमन्य
दक्षस्य सम्भवि पदं ननु कर्णिकायाः ? ॥ १४ ॥
क० धृ० -- हे जिन ! सदा योगिनो हृदयाम्बुजकोशदेशे परमात्मरूपं त्वामन्वेषयन्तीत्यन्वयः । कर्तर्युक्तिः । ‘सदा' निरन्तरम् । 'योगिनः' मुनयः । योगो विद्यते येषां ते
१ कर्मुक्तिः इति घ- पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org