Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 316
________________ श्रीसिद्धसेनदिवाकरकृतम् १९१ ३-२-१५४) इति यबादेशः अवधूय 'अव्ययस्य' (सिद्ध० ३-२-७) सेर्लोपः । एतद्शब्दः अम् 'त्यदामेनदेतदो द्वितीयाटौस्यवृत्त्यन्ते' (सिद्ध० २-१-३३) इति एनद्आदेशः, पूर्ववत् अमि एनम् । आपूर्वो गम्धातुः क्त्वाप्रत्ययः यबादेशः 'यमि०' (सिद्ध०४-२-५५) इति सूत्रेण मलोपः, 'इस्वस्य तः पित्कृति' (सिद्ध० ४-४-११३) इति तागमः सिलोपः, आगत्य इति जातम् । निर्वृतिश्चासौ पुरी च निर्वृतिपुरी ताम् । सार्थान् वाहयतीति सार्थवाहस्तम् । निपूर्वो विद्धातुः 'वर्तमाना तिव्' (सिद्ध० ३-३-६) णिग्प्रत्ययः, 'गुणः०' (सिद्ध० ३-३-२), शेषं पूर्ववत् । निवेदयति इति जातम् । जगतां त्रयं जगत्रयं तस्मै । मन्ये पूर्ववत् । सुराणां दुन्दुभिः-पटहः सुरदुन्दुभिः। इति पञ्चविंशतितमकाव्यार्थभावना ॥ २५ ॥ The seventh Prátihârya viz., the celestial drum like the previous objects is suggestive. Oh God! I believe that the celestial drum which is resounding in the sky announces to the three worlds:-Haloo, Haloo, shake off idleness, approach ( this God) and resort to Him-the leader of the caravan leading to (proceeding towards) the city of the final emancipation. ( 25 ) उयोतितेषु भवता भुवनेषु नाथ! तारान्वितो विधुरयं विहिताधिकारः। मुक्ताकलापकलितोच्छसितातपत्र व्याजात् त्रिधा धृततनुर्बुवमभ्युपेतः ॥ २६ ॥ क० वृ०-हे नाथ! भवता भुवनेषु उयोतितेषु विहिताधिकारस्तारान्वितो विधुरयं त्रिधा धृततनुः मुक्ताकलापकलितोच्छुसितातपत्रव्याजादभ्युपेतोऽस्तीत्यन्वयः। कर्चुक्तिः। हे विभो!। 'भवता' त्वया । 'भुवनेषु' बहुवचननिर्देशात् त्रिषु जगत्सु । 'उयोतितेषु' प्रका. शितेषु सत्सु । 'विहिताधिकारः' निष्पादितव्यापारः । विहितोऽधिकारो यस्य सः 'बहुव्रीहिः' । 'विहताऽधिकारः' इति पाठे तु विशेषेण हतो-विनाशितोऽधिकारो यस्य स विहताधिकारःसन् । ताराभिः अन्वितः-सहितः तारान्वितः 'तत्पुरुषः' । 'विधुः' चन्द्रः। (कः?) 'अयं त्रिधा धृततनुः कृतमूर्तिः। धृता तनुर्येन सधृततनुः ‘बहुव्रीहिः'। कथम् ? 'त्रिधा' त्रयः प्रकारा अस्येति त्रिधा (कथम् ?)। 'ध्रुवं' निश्चयेन। 'मुक्ताकलापकलितोच्छसितातपत्रव्याजात्' १ 'बहुव्रीहिः' इत्यधिको ग-पाठश्चिन्तनीयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408