Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 327
________________ २०२ कल्याणमन्दिरस्तोत्रम् सला मुसलमांसला लक्षणयाऽतिपुष्टा घोरा- रौद्रा धारा यत्र तत् । घोराश्च ता धाराश्च घोरधाराः 'कर्मधारयः', मुसलवन्मांसला मुसलमांसला ः 'तत्पुरुषः', मुसलमांसला घोरधारा यत्र तद् ‘बहुव्रीहिः' । हे जिन ! तेनैव तस्य दुस्तरवारिकृत्यं दधे इत्यन्वयः । कर्मोक्तिः । यत्तदोर्नित्याभिसम्बन्धात् तेनैव दुस्तरवारिणा । हे 'जिन' ! हे वीतराग ! | 'तस्य' दैत्यस्य । 'दुस्तरवारिकृत्यं' दुष्टतरवारिकृत्यं, दुष्टखड्ग कार्यमिति यावत् । दुष्टश्चासौ तरवा - रिः दुस्तरवारिः ‘कर्मधारयः', दुस्तरवारेः कृत्यं दुस्तरवारिकृत्यं 'तत्पुरुषः' । 'दधे' धृतम्, धातूनामनेकार्थत्वात् चक्रे इत्यर्थः । तदेव वारि तस्य सांसारिकदुःखहेतुत्वेन आत्मघाताय जातम् । इति द्वात्रिंशत्तमवृत्तभावः ॥ ३२ ॥ मा०वि० - यदू गर्ज दूर्जितेति । हे जिन ! यद् दैत्येन दुस्तरवारि मुक्तम् । 'मुक्त' इति क्रियापदम् । केन कर्त्रा ? 'दैत्येन' । किं कर्मतापन्नम् ? ' दुस्तरवारि' दुःखेन तीर्यते इति दुस्तरं, दुस्तरं च तत् वारि च दुस्तरवारि । किम् ? 'यत्' । कथम्भूतम् ? 'गर्जदूर्जितघनौघं ' ( घनानामोघा घनौघाः मेघसमूहाः) ऊर्जिताश्च ते घनौघाश्च ऊर्जितघनौघाः, गर्जन्त ऊर्जि - घनौघा [मेघसमूहा ] यत्र तत् गर्जदूर्जितघनौघम् । पुनः किम्भूतम् ? 'अदभ्रभीमं ' अदत्रंप्रचुरं भीमं भीषणं, अदभ्रं च तत् भीमं च अदभ्र भीमम् । पुनः किम्भूतम् ? ' भ्रश्यत्तडित् ' भ्रश्यन्त्यः - पतन्त्यः तडितो - विद्युतो यत्र तत् भ्रश्यत्तडित् । अथवा अदवाःप्रचुराः भीमा - रौद्राः भ्रश्यन्त्यः तडितो यस्मिन् तत् इति अखण्डं पदम् । पुनः किम्भूतम् ? 'मुसलमांसलघोरधारं मुसलवत् मांसलाः घोरा - रौद्रा धारा यस्मिन् तत् । अथ तेनैव दुस्तरवारिणा - दुस्तरजलेन । तस्य - कमठस्य दुस्तरवारिकृत्यं दधे - धृतम् । 'दधे' इति क्रियापदम् । केन कर्त्रा ? 'तेन' । किं कर्मतापन्नम् ? दुर्-दुष्टो यस्तरवारिः -खड्गस्तस्य कृत्यं - कार्य ( दुस्तरवारिकृत्यम् ' ) । कस्य ? ' तस्य' । दुष्टतरवारिकार्य छिदारूपं तेन स एव हत इति भावः । जिनस्य किमपि न हतम् ॥ 'मुलंती मोक्षणे' (सिद्ध० धा० ) मुच्धातुः क्तः 'चजः कगं' (सिद्ध० २-१-८६ ) चस्य कः क्लीवे सौ मुक्तम् इति जातम् । 'धृग् धारणे' (सिद्ध० धा० ) धृधातुः 'परोक्षा ए' (सिद्ध०३ -३ - १२), (द्विर्धातुः ० ' सिद्ध०४-१-१) द्वित्वं, 'ऋतोत्' (सिद्ध०४-१-३८), 'द्वितीयतुर्ययोः पूर्वौ' (सिद्ध० ४ - १ - ४२ ) पूर्वस्य धस्य दः, 'इवर्णादेरस्वे स्वरे यवरलं' (सिद्ध० १-२ - २१) इति ऋकारस्य रत्वं संहितायां दध्रे इति जातम् । दुश्चासौ तरवारिश्च दुस्तरवारिः, दुस्तरवारेः कृत्यं दुस्तरवारिकृत्यम् । इति द्वात्रिंशत्तम काव्यार्थतात्पर्यम् ॥३२॥ Oh Jina! that very shower which was let loose (upon Thee) by the demon (Kamatha) the shower which was unfordable and excessively horrible and which was accompanied by a range of thundering mighty clouds, flashes of lightnings horribly emanating (from the sky) and terrible drops of water thick like a club served in his own ( Kamatha's) case the purpose of a bad sword. ( 32 ) 竑 竑 30 १ 'कथम्भूतं' इति ख- पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408