Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 325
________________ २०० कल्याणमन्दिरस्तोत्रम् अथ ये जिनस्य यामवज्ञां कुर्वन्ति सा जिने विफलीभूता सती तेषामेवार्थेऽनर्थाय स्यादित्येतत्कमठदृष्टान्तसूचकवृत्तत्रयेण ज्ञापयन्नाह प्राग्भारसम्भृतनभांसि रजांसि रोषा दुत्थापितानि 'कमठेन शठेन यानि । छायाऽपि तैस्तव न नाथ! हता हताशो ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा ॥ ३१ ॥ क० वृ०-हे नाथ! शठेन कमठेन प्राग्भारसम्भृतनभांसि यानि रजांसि रोपादुत्थापितानि इत्यन्वयः । कर्मोक्तिः । कमठेनेति कर्तृपदम् । रजांसीति कर्मपदम् । 'शठेन' मायाविना कमठेन । 'प्राग्भारसम्भृतनभांसि' प्राग्भारेण-सामस्त्येन सम्भृतं-व्याप्तं नभो-गगनं यस्तानि । प्राग्भारेण सम्भृतं प्राग्भारसम्भृतं 'तत्पुरुषः',प्राग्भारसम्भृतं नभो यैस्तानि 'बहुव्रीहिः'। 'रजांसि' धूलयः। 'रोषात्' कोपात् । 'उत्थापितानि' प्रकटीकृतानि । त्वां प्रतीत्यर्थाल्लभ्यते । तै रजोभिस्तव छायाऽपि न हता । कर्मोक्तिः । अत्र च्छायाशब्दः शोभावाची । वातोत्क्षिप्तानि रजांसि सूर्यातपच्छायां घ्नन्ति, सूर्य वाऽच्छादयन्ति; तव तु छायाऽपि न हता, आस्तां तवावगुण्ठनम् । कमठोत्थापितानि रजांसि त्वय्यकिञ्चिकराणि जातानीत्यर्थः। तु-पुनः परममीभिरयमेव हताशो दुरात्मा ग्रस्तः। कर्मोक्तिः । 'परं' केवलम् । अमीभिः रजोभिरयमेव कमठो हताशो-दुर्दैवो हता आशा यस्य सः 'बहुव्रीहिः' । 'दुरात्मा' पापात्मा । दुष्ट आत्मा यस्य सः 'बहुव्रीहिः' । 'ग्रस्तः' व्याप्तः। अत्र रजःशब्देन जीवस्यावगुण्ठनलक्षणया कर्माणि प्रोच्यन्ते । पापकर्मभिरयमेव व्याप्त इत्यर्थः । इत्येकत्रिंशत्तमवृत्तार्थः ॥ ३१॥ मा० वि०-प्रारभारेति । हे नाथ! कमठेन यानि रजांसि उत्थापितानि । 'उत्थापितानि इति क्रियापदम् । केन का? 'कमठेन' । कानि कर्मतापन्नानि ? 'रजांसि' धूलयः । कस्मात् ? 'रोषात्' क्रोधात् । किम्भूतानि ? 'प्राग्भारसम्भृतनभांसि' प्राग्भारेणबाहुल्येन सम्भृतं-पूर्ण नभो-व्योम यैस्तानि । तै रजोभिस्तव छायाऽपि-शरीरप्रतिकृतिरपि न हता। 'हता' इति क्रियापदम् । कैः कर्तृभिः? 'तैः' । का कर्मतापन्ना? 'छाया'। कथम् ? 'अपि' । कथम् ? 'न' । शरीरं दूरे तिष्ठतु, छायाऽपि नाक्रान्तेति भावः । तु-पुनः अमीभिः रजोभिः अयमेव दुरात्मा ग्रस्तः । 'ग्रस्तः' इति क्रियापदम् । कैः कर्तृभिः? 'अमीभिः' रजोभिः । कः कर्मतापन्नः? 'अयम्' । किंलक्षणः? हता आशा-वाञ्छा यस्य सः 'हताशः' । 'गोश्चान्ते इस्वोऽनंशि समासेयोबहुव्रीहौं' (सिद्ध० २-४-९६) इति इस्वः सौ हताशः। पुनः किलक्षणः? दुर्-दुष्टः आत्मा यस्य स दुरात्मा ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408