Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 323
________________ १९८ कल्याणमन्दिरस्तोत्रम् . क. वृ०-हे जनपालक! त्वं विश्वेश्वरोऽपि दुर्गतोऽसि । कवुक्तिः । जनान् पालयताति जनपालः 'तत्पुरुषः', जनपाल एव जनपालकस्तस्य सम्बोधनं हे 'जनपालक'!। 'त्वं विश्वेश्वरोऽपि' जगत्स्वाम्यपि । विश्वस्येश्वरो विश्वेश्वरः' । 'दुर्गतोऽसि' दरिद्रो वर्तसे । अपिशब्दाद् विरोधो गम्यते-यो विश्वेश्वरः स कथं दरिद्र इति व्यक्तं विरोधोद्भावनं, विरोधपरिहारस्त्वेवम्-दुःखेन गम्यते-उल्लङ्घयते इति दुर्गः-संसारस्तस्मात् । हे जनपालक! कोऽर्थः? हे 'जनपालक'! हे लोकरक्षक ! । कुतः? 'दुर्गतः' संसारादित्यर्थः । यद्वा जनान् पातीति जनपः, 'तत्पुरुषः' तस्य सम्बोधनं हे जनप! त्वं अलकदुर्गतोऽसि । कर्चुक्तिः । अलकैः-चूर्णकुन्तलैः दुर्गतः-दरिद्रो रहितः इत्यर्थः, व्रतानन्तरं केशानामवृद्धेः । अलकैर्दुर्गतः अलकदुर्गतः 'तत्पुरुषः । एवंविधो वर्तसे त्वम् । हे ईश! किं वा त्वं अक्षरप्रकृतिरपि अलिपिरसि?। कवुक्तिः । 'वा' अथवा । किमिति कुतः । 'अक्षरप्रकृतिरपि' श्रीपार्श्व इति नाम्नाःक्षरस्वभावोऽपि । अक्षराणां प्रकृतिर्यत्र सः 'बहुव्रीहिः' । 'अलिपिः' लिपिरहितः । न विद्यते लिपिर्यस्य सः अलिपिः 'बहुव्रीहिः'। अपिशब्दादत्रापि विरोधो गम्यते, यथा योऽक्षरप्रकृतिः स्यात् सोऽलिपिः कथं स्यात् इति विरोधः । अथ विरोधपरिहारमाह-न विद्यते क्षरः-पतनं यस्याः सा अक्षरा 'बहुव्रीहिः', अक्षरा प्रकृतिर्यस्य सोऽक्षरप्रकृतिः 'बहुव्रीहिः'।मोक्षगतत्वादपतनस्वभावः, एवंविधस्त्वमलि. पि-न विद्यते. लिपिः-कर्ममलसंसर्गो यस्य सोऽलिपिरिति न विरोधः। तथा अज्ञानवत्यपि त्वयि सदैव विश्वप्रकाशहेतुर्ज्ञानं कथञ्चिदेव स्फुरतीत्यन्वयः। कर्चुक्तिः । ‘स्फुरति' इति क्रियापदम् । किं कर्तृ? 'ज्ञानम्' । कथम्भूतम् ? 'विश्वविकासहेतुः' जगत्प्रकाशकारणम् । विश्वस्य विकासो विश्वविकासः 'तत्पुरुषः', विश्वविकासे हेतुर्विश्वविकासहेतुः 'तत्पुरुषः । कस्मिन् ? 'त्वयि'। किंविशिष्टे त्वयि ? 'अज्ञानवति' अज्ञानमस्यास्तीति अज्ञानवान् तस्मिन् । कथम् ? 'कथञ्चिदेव' कथमेव । अत्रापिशब्दाद् विरोधो गम्यते-योऽज्ञानवान् स्यात् तस्मिन् कथं ज्ञानं स्फुरतीति विरोधः। विरोधपरिहारस्त्वेवम्-त्वयि ज्ञानं स्फुरतीत्यन्वयः। कर्चुक्तिः । त्वयि किं कुर्वति ? 'अवति' रक्षति । कान् कर्मतापन्नान् ? 'अज्ञान' मूर्खान् जानन्तीति ज्ञाः, न ज्ञा अज्ञाः 'तत्पुरुषः' तान् । इति त्रिंशत्तमवृत्तार्थः॥३०॥ मा० वि०-विश्वेश्वरोऽपीति। हे जनपालक! त्वं विश्वेश्वरोऽपि दुर्गतः किं वर्तसे ?। 'वर्तसे' इति क्रियापदम् । कः कर्ता ? 'त्वम्' । किम्भूतः? "दुर्गतः । त्वं पुनः किम्भूतः? 'विश्वेश्वरः' । अपिः विरोधद्योतकः। यो विश्वेश्वरः स दुर्गतः कथं भवति, यश्च दुर्गतः स विश्वेश्वरः कथम् इति विरोधः। अथ विरोधपरिहारमाह-हे जनप! त्वं विश्वेश्वरः सन् अलकदुर्गतोऽसि । अलकैः-चूर्णकुन्तलैः दुर्गतः-दरिद्री, रहित इत्यर्थः, व्रतानन्तरं केशाप्रवृद्धेः । वा-अथवा हे ईश! त्वं अक्षरप्रकृतिरपि अलिपिः किं वर्तसे ? । 'वर्तसे' इति क्रिया. । 'ज्ञान' इत्यधिको घ-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408