Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 321
________________ १९६ कल्याणमन्दिरस्तोत्रम् तारयसि । कर्चुक्तिः । इह जन्मजलधिशब्देन बहुलत्वाद् भवसमुद्र उच्यते ततोऽयमर्थःहे नाथ! त्वम् । 'जन्मजलधेः' भवसमुद्रात् । जन्मैव जलधिर्जन्मजलधिः 'कर्मधारयः' तस्मात् । 'विपराङ्मुखोऽपि प्रतिकूलोऽपि । विपराङ्मुखं यस्य सः 'बहुव्रीहिः' । 'असुमतो' जीवान् । असवो विद्यन्ते येषां ते असुमन्तस्तान् । 'निजपृष्ठिलग्नान्' जिनासेवितज्ञानादिमार्गानुगामिन इत्यर्थः । निजस्य पृष्ठिर्निजपृष्ठिः 'तत्पुरुषः', निजपृष्ठौ लग्ना निजपृष्टिलग्नाः (तत्पुरुषः) तान् । 'यत् तारयसि' यत् पारं प्रापयसि । 'हि' निश्चितम् । पार्थिघनिपस्य सतस्तवैव तद् युक्तमस्तीत्यन्वयः। कवुक्तिः। एतदनन्तरोक्तं तव पार्थिवनिपस्य। पृथिव्याः स्वामी पार्थिवः, नितरां पातीति निपः 'तत्पुरुषः', पार्थिवश्चासौ निपश्च पार्थिवनिपः 'कर्मधारयः', पार्थिवान्-नृपान् नितरां पातीति (पार्थिव)निप इति वा तस्य-एवंविधस्य । 'सतः' विद्यमानस्य । युक्तम् । इयमत्र भावना-त्वं विश्वाधिपत्वात् षड्जीवनिकायपालनाच्च पार्थिवो निपश्च सन् पृष्ठलग्नानसुमतो यत् तारयसि तद् युक्तमेव । अन्योऽपि यः पार्थिवो-मृन्मयोऽपि पृथिव्या विकारः पार्थिवो निपो-घटः स्यात् समुद्रस्य जलोपरि स्थितः बुनतया विपरामुखोऽपि-अनभिमुखोऽपि निजपृष्ठिलग्नान् जललग्नाद् भागादपरो भागो घटस्य निजं पृष्ठं तत्र लग्नान् नरान् यत् तारयसि तद् युक्तमेव । हे विभो! । इदं 'चित्रं' आश्चर्यम् । वर्तते इति शेषः । इदं किम् ? यत् त्वं कर्मविपाकशून्योऽसीत्यन्वयः। कर्चुक्तिः । त्वं किंलक्षणः ? 'कर्मविपाकशून्यः' कर्मणां-ज्ञानावरणादीनां अष्टानां विपाकःफलोदयस्तेन शून्यो-रहितः। कर्मणां विपाकः कर्मविपाकः 'तत्पुरुषः', कर्मविपाकेन शून्यः कर्मविपाकशून्यः 'तत्पुरुषः'। घटस्तु कर्मविपाकशून्यो नास्ति, क्रियते इति कर्म, वि-विशेषेण पाकोऽग्निना विपाकः, कर्म च विपाकश्च कर्मविपाको 'द्वन्द्वः', कर्मविपाकाभ्यां शून्यः कर्मविपाकशून्यः 'तत्पुरुषः । इतीदं चित्रम् । इत्येकोनत्रिंशत्तमवृत्तपरमार्थः ॥ २९ ॥ मा०वि०-त्वं नाथेति । हे नाथ! यत् त्वं जन्मजलधेर्विपराङ्मुखोऽपि निजपृष्ठलमान् असुमतः-प्राणिनः तारयसि । 'तारयसि' इति क्रियापदम् । कः कर्ता? 'त्वम् । कान् कर्मतापन्नान् ? 'असुमतः' असवः-प्राणाः सन्ति येषां ते असुमन्तः तान् । किम्भू. तान् ? 'निजपृष्ठलग्नान्' निजस्य पृष्ठं निजपृष्ठं, निजपृष्ठे लग्ना निजपृष्ठलग्नास्तान् । त्वं किलक्षणः? 'विपराअखः' पराङ्मुख इत्यर्थः । कस्मात् ? 'जन्मजलधेः' जन्म एव जलधिः जन्मजलधिः तस्मात् , संसारसमुद्रादित्यर्थः । तत् पार्थिवनिपस्य सतस्तवैव युक्तम् । 'युक्तम्' इति क्रियापदम् । किं कर्तृ? 'तत्' । कस्य 'तव' । कथम् ? 'एव' । तव किम्भूतस्य ? 'पार्थिवनिपस्य' । किम्भूतस्य ? 'सतः' विद्यमानस्य । पृथिव्याः स्वामी पार्थिवः, नितरां पाति-रक्षति इति निपः, पार्थिवश्चासौ निपश्च पार्थिवनिपस्तस्य, भगवत्पक्षे अयमर्यः । अथ अन्योऽपि यः पार्थिवो निपो-घटो भवति सोऽपि जलधेर्विपराङ्मुखः-विपरीतमुखः निजपृष्ठलग्नान् असुमतस्तारयति । 'तारयति' इति क्रियापदम् । कः कर्ता ? 'पार्थिवनिपः' , 'वृत्तार्थः' इति ग-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408