________________
१९६
कल्याणमन्दिरस्तोत्रम् तारयसि । कर्चुक्तिः । इह जन्मजलधिशब्देन बहुलत्वाद् भवसमुद्र उच्यते ततोऽयमर्थःहे नाथ! त्वम् । 'जन्मजलधेः' भवसमुद्रात् । जन्मैव जलधिर्जन्मजलधिः 'कर्मधारयः' तस्मात् । 'विपराङ्मुखोऽपि प्रतिकूलोऽपि । विपराङ्मुखं यस्य सः 'बहुव्रीहिः' । 'असुमतो' जीवान् । असवो विद्यन्ते येषां ते असुमन्तस्तान् । 'निजपृष्ठिलग्नान्' जिनासेवितज्ञानादिमार्गानुगामिन इत्यर्थः । निजस्य पृष्ठिर्निजपृष्ठिः 'तत्पुरुषः', निजपृष्ठौ लग्ना निजपृष्टिलग्नाः (तत्पुरुषः) तान् । 'यत् तारयसि' यत् पारं प्रापयसि । 'हि' निश्चितम् । पार्थिघनिपस्य सतस्तवैव तद् युक्तमस्तीत्यन्वयः। कवुक्तिः। एतदनन्तरोक्तं तव पार्थिवनिपस्य। पृथिव्याः स्वामी पार्थिवः, नितरां पातीति निपः 'तत्पुरुषः', पार्थिवश्चासौ निपश्च पार्थिवनिपः 'कर्मधारयः', पार्थिवान्-नृपान् नितरां पातीति (पार्थिव)निप इति वा तस्य-एवंविधस्य । 'सतः' विद्यमानस्य । युक्तम् । इयमत्र भावना-त्वं विश्वाधिपत्वात् षड्जीवनिकायपालनाच्च पार्थिवो निपश्च सन् पृष्ठलग्नानसुमतो यत् तारयसि तद् युक्तमेव । अन्योऽपि यः पार्थिवो-मृन्मयोऽपि पृथिव्या विकारः पार्थिवो निपो-घटः स्यात् समुद्रस्य जलोपरि स्थितः बुनतया विपरामुखोऽपि-अनभिमुखोऽपि निजपृष्ठिलग्नान् जललग्नाद् भागादपरो भागो घटस्य निजं पृष्ठं तत्र लग्नान् नरान् यत् तारयसि तद् युक्तमेव । हे विभो! । इदं 'चित्रं' आश्चर्यम् । वर्तते इति शेषः । इदं किम् ? यत् त्वं कर्मविपाकशून्योऽसीत्यन्वयः। कर्चुक्तिः । त्वं किंलक्षणः ? 'कर्मविपाकशून्यः' कर्मणां-ज्ञानावरणादीनां अष्टानां विपाकःफलोदयस्तेन शून्यो-रहितः। कर्मणां विपाकः कर्मविपाकः 'तत्पुरुषः', कर्मविपाकेन शून्यः कर्मविपाकशून्यः 'तत्पुरुषः'। घटस्तु कर्मविपाकशून्यो नास्ति, क्रियते इति कर्म, वि-विशेषेण पाकोऽग्निना विपाकः, कर्म च विपाकश्च कर्मविपाको 'द्वन्द्वः', कर्मविपाकाभ्यां शून्यः कर्मविपाकशून्यः 'तत्पुरुषः । इतीदं चित्रम् । इत्येकोनत्रिंशत्तमवृत्तपरमार्थः ॥ २९ ॥
मा०वि०-त्वं नाथेति । हे नाथ! यत् त्वं जन्मजलधेर्विपराङ्मुखोऽपि निजपृष्ठलमान् असुमतः-प्राणिनः तारयसि । 'तारयसि' इति क्रियापदम् । कः कर्ता? 'त्वम् । कान् कर्मतापन्नान् ? 'असुमतः' असवः-प्राणाः सन्ति येषां ते असुमन्तः तान् । किम्भू. तान् ? 'निजपृष्ठलग्नान्' निजस्य पृष्ठं निजपृष्ठं, निजपृष्ठे लग्ना निजपृष्ठलग्नास्तान् । त्वं किलक्षणः? 'विपराअखः' पराङ्मुख इत्यर्थः । कस्मात् ? 'जन्मजलधेः' जन्म एव जलधिः जन्मजलधिः तस्मात् , संसारसमुद्रादित्यर्थः । तत् पार्थिवनिपस्य सतस्तवैव युक्तम् । 'युक्तम्' इति क्रियापदम् । किं कर्तृ? 'तत्' । कस्य 'तव' । कथम् ? 'एव' । तव किम्भूतस्य ? 'पार्थिवनिपस्य' । किम्भूतस्य ? 'सतः' विद्यमानस्य । पृथिव्याः स्वामी पार्थिवः, नितरां पाति-रक्षति इति निपः, पार्थिवश्चासौ निपश्च पार्थिवनिपस्तस्य, भगवत्पक्षे अयमर्यः । अथ अन्योऽपि यः पार्थिवो निपो-घटो भवति सोऽपि जलधेर्विपराङ्मुखः-विपरीतमुखः निजपृष्ठलग्नान् असुमतस्तारयति । 'तारयति' इति क्रियापदम् । कः कर्ता ? 'पार्थिवनिपः'
, 'वृत्तार्थः' इति ग-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org