________________
श्रीसिद्धसेनदिवाकरकृतम्
१९७ पृथिव्या अयं विकारः पार्थिवः, पार्थिवश्चासौ निपश्च पार्थिवनिपः, मृन्मयो घटः पार्थिव निपः । किंलक्षणः? 'विपराङ्मुखः' जलभागस्थितमुखतया स विपराङ्मुख एवोच्यते । कान् कर्मतापन्नान् ? 'असुमतः' । किम्भूतान् ? 'निजपृष्ठलग्नान्' । हे विभो! एतत् चित्रं । यतः कारणात् त्वं कर्मविपाकशून्यः असि । 'असि' इति क्रियापदम् । कः कर्ता? 'त्वम् । किंलक्षणः? 'कर्मविपाकशून्यः' कर्मणां-ज्ञानावरणीयादीनां विपाकः-फलोपभोगस्तेन शून्यः-रहितः । पार्थिवघटस्तु कर्मभिः-कुम्भकारक्रियाभिः विपचनं-विपाकस्तेन शून्यो न भवति, अग्निविपाकयुक्तो भवतीत्यर्थः॥ _ 'तृ प्लवनतरणयोः' (सिद्ध० धा०) तृधातुः 'वर्तमाना सि' (सिद० ३-३-६) णिग्प्रत्ययः, 'वृद्धिः०' (सिद्ध० ३-३-१), 'गुणः०' (सिद्ध० ३-३-२) श , ए अय्, तारयसि इति जातम् । युज्धातुः क्तप्रत्ययः 'चजः कगं' (सिद्ध०२-१-८६), जस्य ग् 'अघोषे प्रथमोऽशिटः' (सिद्ध० १-३-५०) गस्य कः क्लीबे सौ युक्तं इति जातम् । 'असक् भुवि' (सिद्ध० धा०) असूधातुः शतृप्रत्ययः 'नास्त्योर्लक्' (सिद्ध०४-२-९०) अलोपः, षष्ठयां सतः इति जातम् । असूधातुः 'वर्तमाना सि' (सिद्ध० ३-३-६) अस्ते सि हस्त्वेति' (सिद्ध० ४-३-७३) इति सूत्रेण सस्य लुक् , असि इति जातम् । इति एकोनत्रिंशतत्तमकाव्यार्थविवृतिः॥२९॥
Even one who indirectly follows Jina i. e, directly follows Jainism gets liberated.
Oh Lord ! though Thou hast turned away Thy face from the ocean of births ( and deaths ), yet Thou enablest the living beings clinging to Thy back to cross it Nevertheless, this is justifiable in the case of Thine that art the good governor of the world ( Pārthiva-nipa ). This is also seen in the case of an earthen pot (Parthiva-nipa). But, this is strange that thou art not subject to the effects of Karmans ( Karma- vipāka-s'ünya) whereas that earthen pot is not so. is another interpretation possible, viz., it is strange that Thou enablest the beings to cross Samsāra even when Thou art Karma-vipāka-s'ünya, but such is not the case with an earthen pot which is not annealed. (29)
अथ विरोधालङ्कारगर्भा जिनस्याचिन्त्यस्वरूपतां त्याजयन्नाह
विश्वेश्वरोऽपि जनपालक ! दुर्गतस्त्वं
किं वाऽक्षरप्रकृतिरप्यलिपिस्त्वमीश!। . अज्ञानवत्यपि सदैव कथञ्चिदेव
ज्ञानं त्वयि स्फुरति विश्वविकासहेतुः॥ ३० ॥ . 'विवृत्तिः' इति ख-पाठः। ३ 'काशहेतुः' इति ध-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org