________________
१९८
कल्याणमन्दिरस्तोत्रम् . क. वृ०-हे जनपालक! त्वं विश्वेश्वरोऽपि दुर्गतोऽसि । कवुक्तिः । जनान् पालयताति जनपालः 'तत्पुरुषः', जनपाल एव जनपालकस्तस्य सम्बोधनं हे 'जनपालक'!। 'त्वं विश्वेश्वरोऽपि' जगत्स्वाम्यपि । विश्वस्येश्वरो विश्वेश्वरः' । 'दुर्गतोऽसि' दरिद्रो वर्तसे । अपिशब्दाद् विरोधो गम्यते-यो विश्वेश्वरः स कथं दरिद्र इति व्यक्तं विरोधोद्भावनं, विरोधपरिहारस्त्वेवम्-दुःखेन गम्यते-उल्लङ्घयते इति दुर्गः-संसारस्तस्मात् । हे जनपालक! कोऽर्थः? हे 'जनपालक'! हे लोकरक्षक ! । कुतः? 'दुर्गतः' संसारादित्यर्थः । यद्वा जनान् पातीति जनपः, 'तत्पुरुषः' तस्य सम्बोधनं हे जनप! त्वं अलकदुर्गतोऽसि । कर्चुक्तिः । अलकैः-चूर्णकुन्तलैः दुर्गतः-दरिद्रो रहितः इत्यर्थः, व्रतानन्तरं केशानामवृद्धेः । अलकैर्दुर्गतः अलकदुर्गतः 'तत्पुरुषः । एवंविधो वर्तसे त्वम् । हे ईश! किं वा त्वं अक्षरप्रकृतिरपि अलिपिरसि?। कवुक्तिः । 'वा' अथवा । किमिति कुतः । 'अक्षरप्रकृतिरपि' श्रीपार्श्व इति नाम्नाःक्षरस्वभावोऽपि । अक्षराणां प्रकृतिर्यत्र सः 'बहुव्रीहिः' । 'अलिपिः' लिपिरहितः । न विद्यते लिपिर्यस्य सः अलिपिः 'बहुव्रीहिः'। अपिशब्दादत्रापि विरोधो गम्यते, यथा योऽक्षरप्रकृतिः स्यात् सोऽलिपिः कथं स्यात् इति विरोधः । अथ विरोधपरिहारमाह-न विद्यते क्षरः-पतनं यस्याः सा अक्षरा 'बहुव्रीहिः', अक्षरा प्रकृतिर्यस्य सोऽक्षरप्रकृतिः 'बहुव्रीहिः'।मोक्षगतत्वादपतनस्वभावः, एवंविधस्त्वमलि. पि-न विद्यते. लिपिः-कर्ममलसंसर्गो यस्य सोऽलिपिरिति न विरोधः। तथा अज्ञानवत्यपि त्वयि सदैव विश्वप्रकाशहेतुर्ज्ञानं कथञ्चिदेव स्फुरतीत्यन्वयः। कर्चुक्तिः । ‘स्फुरति' इति क्रियापदम् । किं कर्तृ? 'ज्ञानम्' । कथम्भूतम् ? 'विश्वविकासहेतुः' जगत्प्रकाशकारणम् । विश्वस्य विकासो विश्वविकासः 'तत्पुरुषः', विश्वविकासे हेतुर्विश्वविकासहेतुः 'तत्पुरुषः । कस्मिन् ? 'त्वयि'। किंविशिष्टे त्वयि ? 'अज्ञानवति' अज्ञानमस्यास्तीति अज्ञानवान् तस्मिन् । कथम् ? 'कथञ्चिदेव' कथमेव । अत्रापिशब्दाद् विरोधो गम्यते-योऽज्ञानवान् स्यात् तस्मिन् कथं ज्ञानं स्फुरतीति विरोधः। विरोधपरिहारस्त्वेवम्-त्वयि ज्ञानं स्फुरतीत्यन्वयः। कर्चुक्तिः । त्वयि किं कुर्वति ? 'अवति' रक्षति । कान् कर्मतापन्नान् ? 'अज्ञान' मूर्खान् जानन्तीति ज्ञाः, न ज्ञा अज्ञाः 'तत्पुरुषः' तान् । इति त्रिंशत्तमवृत्तार्थः॥३०॥
मा० वि०-विश्वेश्वरोऽपीति। हे जनपालक! त्वं विश्वेश्वरोऽपि दुर्गतः किं वर्तसे ?। 'वर्तसे' इति क्रियापदम् । कः कर्ता ? 'त्वम्' । किम्भूतः? "दुर्गतः । त्वं पुनः किम्भूतः? 'विश्वेश्वरः' । अपिः विरोधद्योतकः। यो विश्वेश्वरः स दुर्गतः कथं भवति, यश्च दुर्गतः स विश्वेश्वरः कथम् इति विरोधः। अथ विरोधपरिहारमाह-हे जनप! त्वं विश्वेश्वरः सन् अलकदुर्गतोऽसि । अलकैः-चूर्णकुन्तलैः दुर्गतः-दरिद्री, रहित इत्यर्थः, व्रतानन्तरं केशाप्रवृद्धेः । वा-अथवा हे ईश! त्वं अक्षरप्रकृतिरपि अलिपिः किं वर्तसे ? । 'वर्तसे' इति क्रिया. । 'ज्ञान' इत्यधिको घ-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org