________________
श्रीसिद्धसेनदिवाकरकृतम्
१९९ पदम् । कः का? 'त्वम्' । किम्भूतः? अक्षरा-वर्णाः अकारककारादिकास्ते एवं प्रकृतिः
मूलं यस्य सः अक्षरप्रकृतिः। पुनः त्वं किंलक्षणः? 'अलिपिः' न लिपिः अलिपिः । अयमपि विरोधः । योऽक्षरप्रकृतिः सोऽलिपिः कथं स्यात्, यश्च अलिपिः सोऽक्षरप्रकृतिः कथम् ? इति विरोधः । अथ परिहारः-अक्षरं-मोक्षः स एव प्रकृतिः-स्वभावो यस्य सोऽक्षरप्रकृतिः। तथापि न लिपिः-अष्टकर्ममलरूपा यस्य सः अलिपिः । हे देव! त्वयि अज्ञानवति अपि ज्ञानं कथञ्चित् स्फुरति? । काकूक्त्या प्रश्नः । 'स्फुरति' इति क्रियापदम् । किं कर्तृ? 'ज्ञानम्' । कस्मिन् ? 'त्वयि' । ज्ञानं किंलक्षणम् ? विश्वस्य विकाशः-प्रकाशस्तस्य हेतुःकारणम् । त्वयि किंलक्षणे? अज्ञानं अस्त्यस्मिन् इति अज्ञानवति । अपिः विरोधे । कथम् ? 'सदैव' निरन्तरम् । अयमपि दृश्यमान एव विरोधः । अथ परिहारः-हे देव! त्वयि अज्ञान्-मूर्खान अवति-रक्षति सति सदैव ज्ञानं स्फुरति । विशेषणं प्राग्वत् एव । 'स्फुरति' इति क्रियापदम् । किं कर्तृ? 'ज्ञानम्' । कस्मिन् ? 'त्वयि' । त्वयि किं कुर्वति? 'अवति' रक्षति । कान् कर्मतापन्नान् ? 'अज्ञान् ॥ । अव रक्षण-गति-कान्ति-प्रीतितृप्तौ(प्यादिषु) इत्यर्थः। अधातुः शतप्रत्ययः शव 'लुगस्यादेत्यपदे' (सिद्ध०२-१-११३) अलोपे सप्तमी डग, अवति इति जातम् । इति त्रिंशचमकाव्यार्थप्रपञ्चः ॥३०॥ i Oh Saviour of mankind ( Jana-palaka)! though Thou art the master of the universe, yet Thou art poor (Durgata ). Oh God I although Thy very nature is a letter ( Akshara ), yet Thou art not forming an alphabet ( Thou art Alipi). Moreover, how is it that knowledge the cause of the illumination of the universe permanently shines in Thee, even when Thou art ignorant ( Ajñanavati)?
These apparent contradictions can by removed be rendering the verse as follows:
Oh Saviour of mankind ! as Thou art the master of the universe, Thou art realized with great difficulty ( Durgata ). Or, Oh Saviour of mankind (Janapa)!. though Thou art the master of the universe, Thou art bald-headed (Alakadurgata ). Or Thou are the protector from the mundane existence (Durga) As Thy very nature is imperishable ( Akshara ), Thou art not enshrouded with Kara mans (Alipi). And there is no wonder if knowledge, the cause of the illumination of the universe, always shines in Thee, even when Thou redeemest the igno, rant ( Ajñān avati) (30).
-- १. 'अव रक्षण-गति-कान्ति-प्रीति-तृप्ति-अवगमन-प्रवेश-श्रवण-स्वाम्यर्थ-याचन-क्रिया-इच्छा-दीप्तिअवाप्ति-आलिङ्गन-हिंसा-दान-भाग-वृद्धिषु' इति पाणिनीयो धातुपादः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org