________________
२००
कल्याणमन्दिरस्तोत्रम् अथ ये जिनस्य यामवज्ञां कुर्वन्ति सा जिने विफलीभूता सती तेषामेवार्थेऽनर्थाय स्यादित्येतत्कमठदृष्टान्तसूचकवृत्तत्रयेण ज्ञापयन्नाह
प्राग्भारसम्भृतनभांसि रजांसि रोषा
दुत्थापितानि 'कमठेन शठेन यानि । छायाऽपि तैस्तव न नाथ! हता हताशो
ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा ॥ ३१ ॥ क० वृ०-हे नाथ! शठेन कमठेन प्राग्भारसम्भृतनभांसि यानि रजांसि रोपादुत्थापितानि इत्यन्वयः । कर्मोक्तिः । कमठेनेति कर्तृपदम् । रजांसीति कर्मपदम् । 'शठेन' मायाविना कमठेन । 'प्राग्भारसम्भृतनभांसि' प्राग्भारेण-सामस्त्येन सम्भृतं-व्याप्तं नभो-गगनं यस्तानि । प्राग्भारेण सम्भृतं प्राग्भारसम्भृतं 'तत्पुरुषः',प्राग्भारसम्भृतं नभो यैस्तानि 'बहुव्रीहिः'। 'रजांसि' धूलयः। 'रोषात्' कोपात् । 'उत्थापितानि' प्रकटीकृतानि । त्वां प्रतीत्यर्थाल्लभ्यते । तै रजोभिस्तव छायाऽपि न हता । कर्मोक्तिः । अत्र च्छायाशब्दः शोभावाची । वातोत्क्षिप्तानि रजांसि सूर्यातपच्छायां घ्नन्ति, सूर्य वाऽच्छादयन्ति; तव तु छायाऽपि न हता, आस्तां तवावगुण्ठनम् । कमठोत्थापितानि रजांसि त्वय्यकिञ्चिकराणि जातानीत्यर्थः। तु-पुनः परममीभिरयमेव हताशो दुरात्मा ग्रस्तः। कर्मोक्तिः । 'परं' केवलम् । अमीभिः रजोभिरयमेव कमठो हताशो-दुर्दैवो हता आशा यस्य सः 'बहुव्रीहिः' । 'दुरात्मा' पापात्मा । दुष्ट आत्मा यस्य सः 'बहुव्रीहिः' । 'ग्रस्तः' व्याप्तः। अत्र रजःशब्देन जीवस्यावगुण्ठनलक्षणया कर्माणि प्रोच्यन्ते । पापकर्मभिरयमेव व्याप्त इत्यर्थः । इत्येकत्रिंशत्तमवृत्तार्थः ॥ ३१॥
मा० वि०-प्रारभारेति । हे नाथ! कमठेन यानि रजांसि उत्थापितानि । 'उत्थापितानि इति क्रियापदम् । केन का? 'कमठेन' । कानि कर्मतापन्नानि ? 'रजांसि' धूलयः । कस्मात् ? 'रोषात्' क्रोधात् । किम्भूतानि ? 'प्राग्भारसम्भृतनभांसि' प्राग्भारेणबाहुल्येन सम्भृतं-पूर्ण नभो-व्योम यैस्तानि । तै रजोभिस्तव छायाऽपि-शरीरप्रतिकृतिरपि न हता। 'हता' इति क्रियापदम् । कैः कर्तृभिः? 'तैः' । का कर्मतापन्ना? 'छाया'। कथम् ? 'अपि' । कथम् ? 'न' । शरीरं दूरे तिष्ठतु, छायाऽपि नाक्रान्तेति भावः । तु-पुनः अमीभिः रजोभिः अयमेव दुरात्मा ग्रस्तः । 'ग्रस्तः' इति क्रियापदम् । कैः कर्तृभिः? 'अमीभिः' रजोभिः । कः कर्मतापन्नः? 'अयम्' । किंलक्षणः? हता आशा-वाञ्छा यस्य सः 'हताशः' । 'गोश्चान्ते इस्वोऽनंशि समासेयोबहुव्रीहौं' (सिद्ध० २-४-९६) इति इस्वः सौ हताशः। पुनः किलक्षणः? दुर्-दुष्टः आत्मा यस्य स दुरात्मा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org