________________
श्री सिद्धसेनदिवाकरकृतम्
१९५
तव सङ्गमस्त्वत्सङ्गमस्तस्मिन् ' तत्पुरुषः ' । 'सुमनसः' विद्वांसः । 'परत्र न रमन्त एक ' अन्यत्र रतिं ध्रुवं न लभन्ते । पुष्पाण्यपि हि सुमनसः प्रोच्यन्ते, अतो युक्तमेव तासां त्वदाश्रयणम् । इत्यष्टाविंशतितमवृत्तार्थः ॥ २८ ॥
मा०वि० - दिव्यस्रज इति । हे जिन ! दिव्यस्रजः - दिव्यमाल्यानि नमत्रिदशाधिपानां मौलिबन्धान् उत्सृज्य भवतः पादौ श्रयन्ति । 'श्रयन्ति' इति क्रियापदम् । काः कर्यः ? 'दिव्यस्रजः' । किं कृत्वा ? ' उत्सृज्य' उन्मुच्य । कान् कर्मतापन्नान् ? 'मौलिबन्धान' मौलीनां - मुकुटानां बन्धास्तान् । किंलक्षणान् ? 'रत्नरचितान्' रत्लै रचिता रत्नरचितास्तान् । केषाम् ? 'नमन्त्रिदशाधिपानां' नमन्तश्च ते त्रिदशाधिपाश्च नमत्रिदशाधि पास्तेषाम् । कौ कर्मतापन्नौ ? ' पादौ' । कस्य ? 'भवतः ' तव । यदि वेति युक्तार्थे । हे जिन ! त्वत्सङ्गमे सति सुमनसो - देवाः सुहृदयाश्च जनाः अपरत्र - अन्यत्र न रमन्त एव न क्रीडन्त एव । 'रमन्ते' इति क्रियापदम् । कथम् ? 'न' | के कर्तारः ? 'सुमनसः' । कस्मिन् ? 'अप रत्र' । कस्मिन् सति ? ' त्वत्सङ्गमे' सति । इमा अपि सुमनसः, ततस्त्वत्पादाश्रयणं युक्तमेवेति भावः । सुमनसः पुष्पाण्यपि उच्यन्ते । तेन शब्दच्छलेन व्याख्यानम् ॥
1
दिव्याश्च ताः स्रजश्च दिव्यस्रजः । उत्पूर्वः 'सृजत् विसर्गे' (सिद्ध० धा० ) सृज( धातुः ) स्वाप्रत्ययः यवादेशः 'अघोषे प्रथमोऽशिट : ' ( सिद्ध० १-३ - ५० ) इति दस्य तः उत्सृज्य इति सिद्धम् । श्रिग् सेवायां' (सिद्ध० धा० ) श्रिधातुः अन्ति शवू, 'गुणः०' (सिद्ध० ३ - ३ - २) अलोपे श्रयन्ति इति सिद्धम् । अपरस्मिन्निति अपरत्र सप्तम्यर्थे त्रप्रत्ययः सप्तमीलोपः अपरत्र । तव सङ्गमः त्वत्सङ्गमस्तस्मिन् त्वत्सङ्गमे । 'रमि astri ' (सिद्ध० धा० ) रम् अन्ते, शेषं पूर्ववत् । इत्यष्टाविंशतितमवृत्तार्थः ॥ २८ ॥
The poet praises God by resorting to a rhetorical inconsistency...
Oh Jina! celestial garlands of the bowing lords of heavens leave aside their diadems, ( even ) though ( they are ) studded with jewels and resort to Thy feet. Or indeed the good-minded (flowers) do not find pleasure anywhere else when there is Thy company. (28)
32 ॐॐॐ
--
-अथ जिनस्य परोक्षेऽपि ये जिनमतं प्रपद्यन्ते तानपि जिनो भवात् तारयतीत्याहत्वं नाथ! जन्मजलधेर्विपराङ्मुखोऽपि यत्तारयस्य सुमतो निज पृष्ठिलग्नान् ।
युक्तं हि पार्थिवनिपस्य सतस्तवैव
चित्रं विभो ! यदसि कर्मविपाकशून्यः ॥ २९ ॥ क० वि० - हे नाथ! त्वं जन्मजलधेर्विपराङ्मुखोऽपि निजपृष्ठिलग्नान् असुमतो यत्
१ '० तमकाव्यविवरणं' इति ख- पाठः । २ 'पृष्ठलान्' इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org