________________
१९४
. कल्याणमन्दिरस्तोत्रम्
रितं जगत्रयं येन स प्रपूरितजगत्रयः, प्रपूरितजगत्रयश्चासौ पिण्डितश्च प्रपूरितजगत्रयपि - ण्डितस्तेन । जगत्रयं प्रपूर्य यो वर्धितः स पिण्डीभूत इत्यर्थः । माणिक्यानां रक्तत्वात् कान्तीनामुपमानं, हेम्नः पीतत्वात् प्रतापोपमानं, रजतस्य श्वेतत्वात् यशस उपमानम् । भगो-ज्ञानम् अस्यास्तीति भगवान्, तस्य सम्बोधनं हे भगवन्! ॥
भगशब्दः मतुष्प्रत्ययः 'मावर्णान्तोपान्तापञ्चमवर्गान् मतोर्मो वः' (सिद्ध० २ - १ - ९४ ) मस्य षः, 'ऋदुदितः' (सिद्ध० १-४-७० ) नोऽन्तः, 'पदस्य' (सिद्ध० २-१ - ८९) तुलोपः, 'दीर्घङयाबूव्यञ्जनात् से:' ( सिद्ध० १-४ - ४५ ) इति सेर्लोपः भगवन् इति जातम् । 'ह्रस्वाद् ङणनो द्वे' (सिद्ध०१ - ३ - २७ ) इति सूत्रेण नकारस्य द्वित्वम् । विपूर्वो 'भाकू दीप्तौ ' ( सिद्ध० धा० ) भाधातुः वर्तमाना मौ विभासि इति जातम् । इति सप्त विंशतितमकाव्यार्थसमासः ॥ २७ ॥
The poet depicts the triad of ramparts.
Oh (all)knowing being! Thou shinest in all directions on account of the triad of the ramparts beautifully made of rubies, gold and silver-the triad which is as it were the store of Thy lustre, prowess and glory, that fill up the three worlds and are amassed together. ( 27 )
हेर्दै 法 ॐ 法
दिortant जिन ! नमत्रिदशाधिपाना-मुत्सृज्य रत्नरचितानपि मौलिबन्धान् । पादौ श्रयन्ति भवतो यदिवा परत्र त्वत्सङ्गमे सुमनसो न रमन्त एव ॥ २८ ॥
क० वृ० - हे जिन ! नमत्रिदशाधिपानां रत्नरचितानपि मौलिबन्धानुत्सृज्य दिव्यart भवतः पादौ श्रयन्ति । कर्तर्युक्तिः । 'नमत्रिदशाधिपानां' प्रणमदेवेन्द्राणाम् । त्रिदशानामधिपास्त्रिदशाधिपाः 'तत्पुरुषः', नमन्तश्च ते त्रिदशाधिपाश्च नमत्रिदशाधिपाः 'कर्मधारयः' तेषाम् । 'रत्नरचितानपि ' मणिविनिर्मितानपि । रत्नैः रचिता रत्नरचिताः 'तत्पुरुषः' तान् । 'मौलिबन्धान्' शिरोमुकुटबन्धनानि । मौलिषु बन्धाः मौलिबन्धाः 'तत्पुरुषः ' तान् । मौलीनां वन्धा मौलिबन्धाः 'तत्पुरुषः' तान् इति वा । 'उत्सृज्य' त्यक्त्वा । 'दिव्यस्रजः' अद्भुतपुष्पमालाः । दिव्याश्च ताः स्रजश्च दिव्यस्रजः 'कर्मधारयः' । कर्बुक्तिः । वज्रशब्दः स्त्रीलिङ्गः । 'भवतः' तव । 'पादौ' चरणौ । 'श्रयन्ति' भजन्ते । यदिवा त्वत्स - ङ्गमे सुमनसः परत्र न रमन्त एवेत्यन्वयः । कर्बुक्तिः । 'यदिवा' अथवा 'त्वत्सङ्गमे' सति । १ 'वापर' इत्यपि सम्भवति । २ 'कर्मुक्तिः' इति पाठः । -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org