________________
श्रीसिद्धसेनदिवाकरकृतम् अथ रत्नादिनिर्मितप्राकारत्रयमध्यस्थायित्वं सुरेन्द्रवन्धत्वं चेति (प्रभोः) लोकोत्तरमतिशयद्वयं काव्यद्वयेन वर्णयन्नाह
खेन प्रपूरितजगत्रयपिण्डितेन ____ कान्ति-प्रताप-यशसामिव सञ्चयेन । माणिक्य-हेम-रजतप्रविनिर्मितेन
सालत्रयेण भगवन्नभितो विभासि ॥ २७ ॥ क० ०–हे 'भगवन्'! भगोऽस्यास्तीति भगवान् तस्य सम्बोधनम् । त्वं सालत्रयेणाभितो विभासि । कव॒क्तिः। 'सालत्रयेण' वप्रत्रिकेण । शालानां त्रयं सालत्रयं 'तत्पुरुषः' तेन । किंलक्षणेन सालत्रयेण? 'माणिक्यहेमरजतप्रविनिर्मितेन' नीलरत्नस्वर्णरूप्यकतेन' माणिक्यानि च हेम च रजतं च माणिक्यहेमरजतानि 'द्वन्द्वः', माणिक्यहेमरजतैः प्रविनिर्मितं माणिक्यहेमरजतप्रविनिर्मितं तेन 'तत्पुरुषः' । 'अभितः समन्तात्। 'विभासि' शोभसे । इवोत्प्रेक्षते । कान्तिप्रतापयशसां सञ्चयेन त्वं विभासीत्यन्वयः । कर्चुक्तिः। ('कान्तिप्रतापयशसां') द्युतिप्रतापकीतीनाम् । 'सञ्चयेन' राशिना । विभासि । पार्श्वनाथशरीरस्य नीलवर्णत्वादिह माणिक्येति पदं प्रयुक्तं कविना । प्रतापयशसी तु कविसमये हि क्रमेण तपनीयरूप्यवौँ गीयते । कान्तिश्च प्रतापश्च यशश्च कान्तिप्रसापयशांसि तेषां 'द्वन्द्वः । कथम्भूतेन कान्तिप्रतापयशसां सञ्चयेन ? 'स्वेन' स्वकीयेन । पुनः किंलक्षणेन कान्तिप्रतापयशसां सञ्चयेन ? 'प्रपूरितजगत्रयपिण्डितेन' व्याप्तविश्वत्रयपिण्डीभूतेन । प्रपूरितं-व्याप्तं जगत्रयं येन स प्रपूरितजगत्रयः, स चासौ पिण्डितश्च-पिण्डीभूतश्च तेन । जगतां त्रयं जगत्रयं 'तत्पुरुषः', प्रपूरितं जगत्रयं येन स प्रपूरितजगत्रयः 'बहुव्रीहिः', प्रपूरितजगत्रयश्चासौ पिण्डितश्च प्रपूरितजगत्रयपिण्डितः 'कर्मधारयः' तेन । व्याप्तविश्वनयपिण्डीभूतेन । इति सप्तविंशतितमवृत्ततात्पर्यार्थः ॥ २७ ॥
मा०वि०-खेनेति। हे भगवन् ! त्वं शालत्रयेण अभितः-समन्तात् विभासि । 'विभासि' इति क्रियापदम् । कः कर्ता ? 'त्वम् । केन ? 'शालत्रयेण' वप्रत्रयेण । किंलक्षणेन? माणिक्यहेमरजतप्रविनिर्मितेन' माणिक्यं च हेम च रजतं च माणिक्यहेमरजतानि, तैः प्रविनिर्मितं तेन माणिक्यहेमरजतप्रविनिर्मितेन । इवोत्प्रेक्षते । स्वेन-स्वकीयेन कान्तिप्रतापयशसां सञ्चयेन विभासि । 'विभासि' इति क्रियापदम् । कः कर्ता? त्वम् । केन ? 'सञ्चयेन' समूहेन । केषाम् ? 'कान्तिप्रतापयशसां' कान्तिश्च प्रतापश्च यशश्च कान्तिप्रतापयशांसि तेषां कान्तिप्रतापयशसाम् । सञ्चयेन किंलक्षणेन ? 'प्रपूरितजगत्रयपिण्डितेन' प्रपू
१. 'शाल.' इत्यपि पाठः। २ 'तेन तत्पुरुषः' इति क-ख-पाठः। ३ 'तत्पुरुषस्तेन' इति घ-पाठः। ४ श्रीपार्श्वशरीरस्य इति घ-पाठः। ५ 'वृत्तार्थः' इति ग-पाठः।
भ. २५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org