Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 319
________________ १९४ . कल्याणमन्दिरस्तोत्रम् रितं जगत्रयं येन स प्रपूरितजगत्रयः, प्रपूरितजगत्रयश्चासौ पिण्डितश्च प्रपूरितजगत्रयपि - ण्डितस्तेन । जगत्रयं प्रपूर्य यो वर्धितः स पिण्डीभूत इत्यर्थः । माणिक्यानां रक्तत्वात् कान्तीनामुपमानं, हेम्नः पीतत्वात् प्रतापोपमानं, रजतस्य श्वेतत्वात् यशस उपमानम् । भगो-ज्ञानम् अस्यास्तीति भगवान्, तस्य सम्बोधनं हे भगवन्! ॥ भगशब्दः मतुष्प्रत्ययः 'मावर्णान्तोपान्तापञ्चमवर्गान् मतोर्मो वः' (सिद्ध० २ - १ - ९४ ) मस्य षः, 'ऋदुदितः' (सिद्ध० १-४-७० ) नोऽन्तः, 'पदस्य' (सिद्ध० २-१ - ८९) तुलोपः, 'दीर्घङयाबूव्यञ्जनात् से:' ( सिद्ध० १-४ - ४५ ) इति सेर्लोपः भगवन् इति जातम् । 'ह्रस्वाद् ङणनो द्वे' (सिद्ध०१ - ३ - २७ ) इति सूत्रेण नकारस्य द्वित्वम् । विपूर्वो 'भाकू दीप्तौ ' ( सिद्ध० धा० ) भाधातुः वर्तमाना मौ विभासि इति जातम् । इति सप्त विंशतितमकाव्यार्थसमासः ॥ २७ ॥ The poet depicts the triad of ramparts. Oh (all)knowing being! Thou shinest in all directions on account of the triad of the ramparts beautifully made of rubies, gold and silver-the triad which is as it were the store of Thy lustre, prowess and glory, that fill up the three worlds and are amassed together. ( 27 ) हेर्दै 法 ॐ 法 दिortant जिन ! नमत्रिदशाधिपाना-मुत्सृज्य रत्नरचितानपि मौलिबन्धान् । पादौ श्रयन्ति भवतो यदिवा परत्र त्वत्सङ्गमे सुमनसो न रमन्त एव ॥ २८ ॥ क० वृ० - हे जिन ! नमत्रिदशाधिपानां रत्नरचितानपि मौलिबन्धानुत्सृज्य दिव्यart भवतः पादौ श्रयन्ति । कर्तर्युक्तिः । 'नमत्रिदशाधिपानां' प्रणमदेवेन्द्राणाम् । त्रिदशानामधिपास्त्रिदशाधिपाः 'तत्पुरुषः', नमन्तश्च ते त्रिदशाधिपाश्च नमत्रिदशाधिपाः 'कर्मधारयः' तेषाम् । 'रत्नरचितानपि ' मणिविनिर्मितानपि । रत्नैः रचिता रत्नरचिताः 'तत्पुरुषः' तान् । 'मौलिबन्धान्' शिरोमुकुटबन्धनानि । मौलिषु बन्धाः मौलिबन्धाः 'तत्पुरुषः ' तान् । मौलीनां वन्धा मौलिबन्धाः 'तत्पुरुषः' तान् इति वा । 'उत्सृज्य' त्यक्त्वा । 'दिव्यस्रजः' अद्भुतपुष्पमालाः । दिव्याश्च ताः स्रजश्च दिव्यस्रजः 'कर्मधारयः' । कर्बुक्तिः । वज्रशब्दः स्त्रीलिङ्गः । 'भवतः' तव । 'पादौ' चरणौ । 'श्रयन्ति' भजन्ते । यदिवा त्वत्स - ङ्गमे सुमनसः परत्र न रमन्त एवेत्यन्वयः । कर्बुक्तिः । 'यदिवा' अथवा 'त्वत्सङ्गमे' सति । १ 'वापर' इत्यपि सम्भवति । २ 'कर्मुक्तिः' इति पाठः । - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408