Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
कल्याणमन्दिरस्तोत्रम्
मौक्तिकनिकरसहितोल्लसितच्छत्रत्रयच्छलात् । मुक्तानां कलापो मुक्ताकलापः 'तत्पुरुषः', मुक्ताकलापेन कलितानि मुक्ताकलापकलितानि 'तत्पुरुषः', आतपात् त्रायन्त इत्यातपत्राणि 'तत्पुरुषः', उच्छ्वसितानि च तान्यातपत्राणि उच्चसितातपत्राणि 'कर्मधारयः', मुक्ताकलाप - कलितानि च तानि उच्चसितातपत्राणि च मुक्ताकलापकलितोच्छु सितातपत्राणि 'कर्मधारयः', मुक्ताकलापकलितोच्छ्वसितातपत्राणां व्याजं मुक्ताकलापकलितोच्छु सितातपत्रव्याजं तस्मात् 'तत्पुरुषः' । नेदं समुक्ताकलापमातपत्रत्रयं, किन्तु सपरिवारो विधुस्त्रिमूर्तिरभ्युपेतः - त्वामाश्रितः । अयं भावः त्वया जगत्सु प्रकाशितेषु सत्सु विफलीभूतनिजक्रियः मुक्ताकलापोपलक्षितच्छत्रच्छद्मना नूनं चन्द्रस्ताराभिरन्वितस्त्रिमूर्तिरत्वां सेवते । इति षडूविंशतितमवृत्तार्थः ॥ २६ ॥
१९२
मा०वि० – उद्योतितेष्विति । हे नाथ ! अयं विधुर्ध्रुवं त्वां अभ्युपेतः - आश्रितः । 'अभ्युपेतः' इति क्रियापदम् । कः कर्ता ? 'विधुः' चन्द्रः । कः ? 'अयम्' । किंलक्षणः ? 'तारान्वितः । ताराभिरन्वितस्तारान्वितः । कथम्भूतः ? ' धृततनुः' । धृता तनुः शरीरं येन स धृततनुः । कथम् ? ' त्रिधा' । कस्मात् ? 'मुक्ताकलापकलितोच्छु सितातपत्रव्याजात्' मुक्तानां कलापः मुक्ताकलापः मुक्ताकलापेन कलितानि मुक्ताकलाप कलितानि, उच्चसितानि च तानि आतपत्राणि च उच्छ्वसितातपत्राणि, मुक्ताकलाप कलितानि च तानि उच्छ्वसितातपत्राणि च मुक्ताकलापकलितोच्छ्वसितातपत्राणि तेषां व्याजः - कपटं तस्मात् । विधुः किम्भूतः ? 'विहताधिकारः' विहतः - उद्दलितः अधिकारो यस्य सः । केन ? 'भवता' । केषु सत्सु ? 'भुवनेषु' सत्सु । किंलक्षणेषु ? 'उद्योतितेषु' । अत एव विहताधि
"
कारः ॥
उत्पूर्वी द्युत्धातुः क्तप्रत्ययः णिग्प्रत्ययः 'गुणः ० ' ( सिद्ध० ३ - ३-२ ) सुपि उद्योतितेषु सिद्धम् । त्रिप्रकारेण त्रिधा, त्रिशब्दो धाप्रत्ययः, अव्ययत्वात् विभक्तिलोपः । अभि-उपाभ्यां 'इण गतौ' (सिद्ध० धा० ) इधातुः क्तप्रत्ययः सौ अभ्युपेतः इति सिद्धम् ॥ इति षड्विंशतितमकाव्यार्थचिन्ता कृता ॥ २६ ॥
The poet delineates the eighth or the final Prátiharya.
Oh Lord! as the worlds have been ( already ) illuminated by Thee, this moon accompanied by stars, (being thus) deprived of her authority has certainly approached Thee by assuming the three bodies in the disguise of the (three) canopies which are shining on account of their being adorned by a cluster of pearls. (26)
Jain Education International
भु
ॐ 30
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/860414900467523f97d61018550ec82c8d50503050180c85e1be7d36a76e75f1.jpg)
Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408