________________
श्रीसिद्धसेनदिवाकरकृतम्
१९१ ३-२-१५४) इति यबादेशः अवधूय 'अव्ययस्य' (सिद्ध० ३-२-७) सेर्लोपः । एतद्शब्दः अम् 'त्यदामेनदेतदो द्वितीयाटौस्यवृत्त्यन्ते' (सिद्ध० २-१-३३) इति एनद्आदेशः, पूर्ववत् अमि एनम् । आपूर्वो गम्धातुः क्त्वाप्रत्ययः यबादेशः 'यमि०' (सिद्ध०४-२-५५) इति सूत्रेण मलोपः, 'इस्वस्य तः पित्कृति' (सिद्ध० ४-४-११३) इति तागमः सिलोपः, आगत्य इति जातम् । निर्वृतिश्चासौ पुरी च निर्वृतिपुरी ताम् । सार्थान् वाहयतीति सार्थवाहस्तम् । निपूर्वो विद्धातुः 'वर्तमाना तिव्' (सिद्ध० ३-३-६) णिग्प्रत्ययः, 'गुणः०' (सिद्ध० ३-३-२), शेषं पूर्ववत् । निवेदयति इति जातम् । जगतां त्रयं जगत्रयं तस्मै । मन्ये पूर्ववत् । सुराणां दुन्दुभिः-पटहः सुरदुन्दुभिः। इति पञ्चविंशतितमकाव्यार्थभावना ॥ २५ ॥
The seventh Prátihârya viz., the celestial drum like the previous objects is suggestive.
Oh God! I believe that the celestial drum which is resounding in the sky announces to the three worlds:-Haloo, Haloo, shake off idleness, approach ( this God) and resort to Him-the leader of the caravan leading to (proceeding towards) the city of the final emancipation. ( 25 )
उयोतितेषु भवता भुवनेषु नाथ!
तारान्वितो विधुरयं विहिताधिकारः। मुक्ताकलापकलितोच्छसितातपत्र
व्याजात् त्रिधा धृततनुर्बुवमभ्युपेतः ॥ २६ ॥ क० वृ०-हे नाथ! भवता भुवनेषु उयोतितेषु विहिताधिकारस्तारान्वितो विधुरयं त्रिधा धृततनुः मुक्ताकलापकलितोच्छुसितातपत्रव्याजादभ्युपेतोऽस्तीत्यन्वयः। कर्चुक्तिः। हे विभो!। 'भवता' त्वया । 'भुवनेषु' बहुवचननिर्देशात् त्रिषु जगत्सु । 'उयोतितेषु' प्रका. शितेषु सत्सु । 'विहिताधिकारः' निष्पादितव्यापारः । विहितोऽधिकारो यस्य सः 'बहुव्रीहिः' । 'विहताऽधिकारः' इति पाठे तु विशेषेण हतो-विनाशितोऽधिकारो यस्य स विहताधिकारःसन् । ताराभिः अन्वितः-सहितः तारान्वितः 'तत्पुरुषः' । 'विधुः' चन्द्रः। (कः?) 'अयं त्रिधा धृततनुः कृतमूर्तिः। धृता तनुर्येन सधृततनुः ‘बहुव्रीहिः'। कथम् ? 'त्रिधा' त्रयः प्रकारा अस्येति त्रिधा (कथम् ?)। 'ध्रुवं' निश्चयेन। 'मुक्ताकलापकलितोच्छसितातपत्रव्याजात्'
१ 'बहुव्रीहिः' इत्यधिको ग-पाठश्चिन्तनीयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org