________________
१९०
कल्याणमन्दिरस्तोत्रम् भो भो प्रमादमवधूय भजध्वमेन__ मागत्य निर्वृतिपुरी प्रति सार्थवाहम् । एतन्निवेदयति देव! जगत्रयाय
मन्ये नदन्नभिनभः सुरदुन्दुभिस्ते ॥ २५ ॥ क० वृ०-मन्ये इत्यव्ययमुत्प्रेक्षायाम् । अहमेवं मन्ये-सम्भावयामि । हे देव! ते सुरदुन्दुभिरभिनभो नदन् जगत्रयायैतन्निवेदयति । कवुक्तिः। 'ते' तव । 'सुरदुन्दुभिः' देवदुन्दुभिः । दुन्दुभिशब्दः पुंल्लिङ्गो ज्ञेयः । सुराणां दुन्दुभिः सुरदुन्दुभिः 'तत्पुरुषः । 'अभिनभः' अभि-व्याप्य नभः, नभसीत्यर्थः । नभोऽभि-लक्षीकृत्याभिनभः 'अव्ययीभावः । 'नदन्' शब्दं कुर्वन् । 'जगत्रयाय' विश्वत्रयाय । जगतां त्रयं जगत्रयं तस्मै 'तत्पुरुषः। एतत् पूर्वार्धोक्तं निवेदयति-उद्घोषयति। किं तदित्याह-भो भो प्रमादं अवधूय आगत्य निर्वृतिपुरी प्रति सार्थवाहमेनं यूयं भजध्वमित्यन्वयः । कर्चुक्तिः। भो भो इत्यामन्त्रणे । 'जगत्रयं(?) लोका इत्यर्थाद् गम्यते । प्रमादं 'अवधूय' परित्यज्य । 'आगत्य' । 'निर्वृतिपुरी प्रति' मोक्षपुरी प्रति । निवृतिरेव पुरी निवृतिपुरी तां 'कर्मधारयः' । 'सार्थवाह' सार्थं वाहयतीति सार्थवाहस्तम् । एनं' अमुं प्रत्यक्षं जिनम् । 'भजध्वं' समाश्रयध्वम् । यदि यूयं मुक्तिनगरी प्रति यियासवस्तदाऽमुं जिनं मोक्षपत्तनं प्रति सार्थवाहं आगत्याश्रयतेति वदन्निव देवदुन्दुभिर्नभसि ध्वनन्नस्ति । इति पञ्चविंशतितमवृत्तार्थः ॥ २५ ॥
मा०वि०-भो भो इति । हे देव! अहं मन्ये एतद्वाक्यं पूर्ववत् । किं मन्ये इत्याह -ते-तव सुरदुन्दुभिनंदन सन् एतत् निवेदयति । 'निवेदयति' इति क्रियापदम् । कः कर्ता? 'सुरदुन्दुभिः' । किं कर्मतापन्नम् ? 'एतत्' । कस्मै ? 'जगत्रयाय' । किं कुर्वन् ? 'नदन्' गर्जन् । कथम् ? 'अभिनभः' आकाशं अभि-लक्षीकृत्य अभिनभः 'अव्ययीभावः'। एतत् किम् ? 'भो भो लोकाः! प्रमादं अवधूय एनं जगदीश्वरं भजध्वं-श्रयध्वम् । 'भजध्वम्' इति क्रियापदम् । के कर्तारः? 'यूयम्' । कं कर्मतापन्नम् ? 'एनम्' । किं कृत्वा ? 'आगत्य' आगम्य । एनं किंलक्षणम् ? 'सार्थवाहम्' । कां प्रति ? 'निवृतिपुरी प्रति' मोक्षपुरीं प्रति । किं कृत्वा ? 'अवधूय' विहाय । कं कर्मतापन्नम् ? 'प्रमादम् ॥
भोस् इत्यव्ययमामन्त्रणे । 'वीप्सायां' (सिद्ध०.७-४-८०) द्वित्वम् । 'सो रुः' (सिद्ध० २-१-७२), 'अवर्णभोभगोऽघोलुंगसन्धिः ' (सिद्ध० १-३-२२) इति पूर्वभोसूशब्दस्य रलोपः। अवपूर्वः धूधातुः क्त्वाप्रत्ययः, 'अनञः क्त्वो य' (सिद्ध०
१ 'तत्पुरुषस्तस्मै' इति घ-पाठः। २ 'कर्तयुक्तिः' इति घ-पाठः। ३ 'सार्धं ब(?)जगमय' इति घ-पाठः । ४ 'विहताधिकारः' इत्यपि पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org