________________
श्रीसिद्धसेनदिवाकरकृतम्
१८९ यस्मात् स वीतरागस्तस्य सम्बोधनं 'बहुव्रीहिः' । 'यदिवा' अथवा । 'तव सान्निध्यतोऽपि' त्वत्सामीप्यादपि । सन्निधेर्भावः सान्निध्यं ततः। अपिशब्दात् त्वद्वचनश्रवणात् त्वदर्शनाच्चेत्यपि ज्ञेयम् । 'सचेतनोऽपि' व्यक्तचेतनोऽपि । आस्तामचेतनोऽशोकः । सुखसाध्यान्यवर्णविधानः, किन्तु सचेतनोऽपि न परावर्तयितुं शक्यते इत्यपेरर्थः । सह चेतनया वर्तते यः स सचेतनः 'बहुव्रीहिः' । 'नीरागतां' निर्गतरागताम् । निर्गतो रागादिति नीरागः 'तत्पुरुषः', नीरागस्य भावो नीरागता ताम् । को न व्रजति ? । अपि तु तव सामीप्यात् सर्वोऽपि सचेतनाचेतनो नीराग एव हि स्यात् । सचेतनो हि नीरागो-विगतस्नेहादिरागः स्याद्, अचेतनस्त्वशोको नीरागो-विगतरक्तवर्णः स्यात् । इति चतुर्विंशतितमवृत्तार्थः ॥२४॥
मा० वि०-उद्गच्छतेति । हे प्रभो! तव शितिद्युतिमण्डलेन लुप्तच्छदच्छविरशोकतरुर्बभूव । 'बभूव' इति क्रियापदम् । कः कर्ता? 'अशोकतरुः' । किंलक्षणः? 'लुप्तच्छदच्छविः' लुप्ता छदच्छविः-पत्रकान्तिर्यस्य स लुप्तच्छदच्छविः । केन? 'शितिद्युतिमण्डलेन' श्यामद्युतिमण्डलेन । किं कुर्वता? 'उद्गच्छता' ऊर्ध्वं प्रसरता । 'यदिवा' इति पक्षान्तरे । हे वीतराग! तव सान्निध्यतः सचेतनोऽपि नीरागतां को न ब्रजति ? अपि तु सर्वोऽपि व्रजति । 'ब्रजति' इति क्रियापदम् । कः कर्ता ? 'सचेतनः' । कः? 'कः' । कथम्? 'न'। कथम् ? 'अपि' । कां कर्मतापन्नाम् ? 'नीरागताम्' । कुतः? 'सान्निध्यतः' सामीप्यतः। कस्य ? 'तव ॥
उद्गच्छत्शब्दः तृतीया टा संहितायां उद्गच्छता । द्युतीनां मण्डलं द्युतिमण्डलं, शिति च तत् द्युतिमण्डलं च शितिद्युतिमण्डलं तेन । 'भू सत्तायां' (सिद्ध० धा०) भूधातुः, 'परोक्षा णव्' (सिद्ध० ३-३-१२), द्विर्धातुः०' (सिद्ध०४-१-१) द्वित्वं, 'भूस्वपोरदुतौं' (सिद्ध० ४-१-७०) इति पूर्वभू(भुवो) भा, 'द्वितीयतुर्ययोः पूर्वी' (सिद्ध० ४-१-४२) भस्य वः, 'भुवो वः परोक्षाद्यतन्योः ' (सिद्ध० ४-२-४३), बभूव इति जातम् । नीरागस्य भावो नीरागता ताम् । निर्वो रागः ‘रो रे लुगू दीर्घश्चादिदुतः' (सिद्ध० १-३४१) इति रलोपः नेः दीर्घश्च । सह चेतनया वर्तते यः स सचेतनः । यदि अचेतनोsशोकतरुलृप्तच्छदच्छविर्भवति, तदा सचेतनो जनस्तव सान्निध्यतो नीरागः कथं न भवतीति भावः । रागो रक्तत्वं स्नेहश्च, तेन शब्दच्छलेन व्याख्यानम् । इति चतुर्विंशतितमकाव्यार्थसङ्केपः ॥२४॥
Even God's presence destroys passions.
The colour of leaves of the Asoka tree is obscured by the dark halo of the orb of Thy light (Bhūmandala) which is spreading above. Or why, oh passionless onel which animate being is not set free from attachment (and aversion ) by the influence of Thy mere presence ? ( 24 )
'तनोऽपि' इति घ-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org