________________
१८४
कल्याणमन्दिरस्तोत्रम् हराः । 'शिखण्डिनः' मयूराः । कं कर्मतापन्नम् ? 'नवाम्बुवाई' नवीनमेघम् । किं कुर्वन्तम् ? 'नदन्तं' गर्जन्तम् । कथम् ? 'उच्चैः' । कस्मिन् ? 'चामीकरादिशिरसि' सुवर्णाचलशिखरे। अम्बुवाहं किंलक्षणम् ? 'श्यामम्' । पुनः किंलक्षणम् ? 'गभीरगिरं' गभीरस्तनितम्॥
स्थाधातुः डप्रत्ययः “डित्यन्त्यस्वरादेः' (सिद्ध० २-१-११४) इति आलोपः, संहि. तायां अमि स्थं इति निष्पत्तिः । आइपूर्वो लोकणधातुः चुरादिः 'वर्तमाना अन्ति' (सिद्ध० ३-३-६), 'चुरादिभ्यो णिच्' (सिद्ध० ३-४-१५), शेषं पूर्ववत् । नद्धातुः शतृप्रत्ययः 'ऋदुदितः' (सिद्ध० १-४-७०) नोऽन्तः, शवप्रत्ययः अलोपे अमि नदन्तं इति जातम् । चामीकरस्य अद्रिः चामीकराद्रिः, चामीकराद्रेः शिरः चामीकराद्रिशिरस्तस्मिन् । नवश्चासौ अम्बुवाहश्च नवाम्बुवाहस्तम् । भगवतो मेघस्योपमानं, रत्नसिंहासनस्य मेरुशिरस उपमानम् । इति त्रयोविंशतितमवृत्तवृत्तिः ॥ २३ ॥
The poet describes the fifth Prūtikūryu.
The Bhavyas here ardently look at Thee who art dark (in complexion), whose speech is grave and who art seated on a glittering golden lion-throne studded with jewels, as is the case with the peacocks who eagerly look at the mightily thundering, dark and fresh cloud which has risen to the summit of the golden mountain ( Meru). (23)
उद्गच्छता तव शितिद्युतिमण्डलेन
लुप्तच्छदच्छविरशोकतरुर्बभूव । सान्निध्यतोऽपि यदिवा तव वीतराग!
नीरागतां ब्रजति को न सचेतनोऽपि ? ॥ २४ ॥ क० वृ०-हे अर्हन् ! तव शितिद्युतिमण्डलेनोद्गच्छताऽशोकतरुलुप्तच्छदच्छविर्बभूवेत्यन्वयः। कर्चुक्तिः । 'शितिद्युतिमण्डलेन' कृष्णकान्तिकलापेन, भामण्डलेनेति यावत् । शितिश्चासौ द्युतिश्च शितिद्युतिः 'कर्मधारयः', शितिद्युतेः मण्डलं शितिद्युतिमण्डलं तेन 'तत्पुरुषः' । 'उद्गच्छता' ऊर्ध्व गच्छता-प्रसरता। ऊर्ध्वं गच्छतीत्युद्गच्छत् तेन 'तत्पुरुषः' (2)। अशोकतरुः । अशोकश्चासौ तरुश्च अशोकतरुः 'कर्मधारयः' । 'लुप्तच्छदच्छविः' अपलपितपत्रप्रभः । छदानां छविः छदच्छविः 'तत्पुरुषः', लुप्ता छदच्छविर्यस्य सः 'बहुव्रीहिः' । 'बभूव' आसीत् । त्वत्तनुकान्त्या आच्छादितानि अशोकतरुपत्राणि रक्ततां तत्यजुरित्यर्थः । हे वीतराग! यदि वा तव सान्निध्यतोऽपि कः सचेतनोऽपि नीरागतां न ब्रजति ? अपि तु सर्वोऽपि व्रजतीत्यन्वयः। कर्चुक्तिः । हे 'वीतराग!' वीतो-गतो रागो
परमार्थः' इति क-पाठः। २ 'तत्पुरुषस्तेन' इति घ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org