________________
श्रीसिद्धसेनदिवाकरकृतम् श्यामं गभीरगिरमुज्वलहेमरत्न
सिंहासनस्थमिह भव्यशिखण्डिनस्त्वाम् । आलोकयन्ति रभसेन नदन्तमुच्चै
श्चामीकरादिशिरसीव नवाम्बुवाहम् ॥ २३ ॥ क. वृ०-हे पुरुषोत्तम! श्यामं गभीरगिरमुज्ज्वलहेमरत्नसिंहासनस्थमिह भव्यशिखण्डिनस्त्वामालोकयन्तीत्यन्वयः। कर्चुक्तिः। श्यामः शामश्च शब्दावेकार्थों, श्याम-कृष्णवर्ण, कविसमये नीलकृष्णयोरेकत्वात् नीलवर्णम् । 'गभीरगिरं' मधुरशब्दम् । गभीरा गीर्यस्य स गभीरगीस्तं 'बहुव्रीहिः' । 'उज्वलहेमरत्नसिंहासनस्थं देदीप्यमानस्वर्णमिश्ररत्नसिंहासनस्थितम् । हेम च रत्नानि च हेमरत्नानि 'द्वन्द्वः', हेमरत्नानां सिंहासनं हेमरत्नसिंहासनं 'तत्पुरुषः', उज्वलं च तद्धेमरत्नसिंहासनं च उज्वलहेमरत्नसिंहासनं 'कर्मधारयः', उज्ज्वलहेमरत्नसिंहासने तिष्ठतीति उज्ज्वलहेमरत्नसिंहासनस्थः तं 'तत्पुरुषः' । 'भव्यशिखण्डिनः' भव्यमयूराः । शिखण्डाः-पिच्छानि विद्यन्ते येषां ते शिखण्डिनः 'बहुव्रीहिः । भव्या एव शिखण्डिनो भव्यशिखण्डिनः 'कर्मधारयः' । इह-भरतमध्यभुवि त्वामालोकयन्ति । किमिवेत्याह-इव-यथा रभसेनोच्चै दन्तं नवाम्बुवाहं शिखण्डिनश्चामीकरादिशिरसि आलोकयन्तीत्यन्वयः । कवुक्तिः। 'रभसेन' वेगेन । 'उच्चैर्नदन्तं' अतिशयेन गर्जन्तम् । 'चामीकराद्रिशिरसि' स्वर्णगिरिशिखरे । चामीकरस्याद्रिश्चामीकराद्रिः 'तत्पुरुषः', चामीकराद्रेः शिरश्चामीकरादिशिरस्तस्मिन् 'तत्पुरुषः' । 'नवाम्बुवाई' नवमेघम् । अम्बु वहती त्यम्बुवाहः, नवश्चासावम्बुवाहश्च नवाम्बुवाहः तं 'कर्मधारयः' । शिखण्डिन आलोकयन्ति इत्यत्रापि सम्बध्यते । तथा सिंहासनस्थं त्वां दृष्ट्वा भव्याः प्रमोदन्ते । यथा स्वर्णाचलशिरःस्थं मेघं दृष्ट्वा मयूराः प्रमोदं भजन्ते ॥ इति त्रयोविंशतितमवृत्तपरमार्थः॥ २३ ॥
मा० वि०-श्याममिति । हे स्वामिन् ! भव्यशिखण्डिनः त्वां आलोकयन्ति । 'आलोकयन्ति' इति क्रियापदम् । के कर्तारः? 'भव्यशिखण्डिनः' । भव्या एव शिखण्डिनो -मयूराः भव्यशिखण्डिनः । त्वां किम्भूतम् ? 'श्यामम्' । पुनः किम्भूतम् ? 'गभीरगिरं' गभीरा गी:-वाणी यस्य स गभीरगीस्तम् । पुनः किम्भूतम् ? 'उज्ज्वलहेमरत्नसिंहासनस्थं' हेम्ना उपलक्षितानि रत्नानि हेमरत्नानि, हेमरत्नानां सिंहासनं हेमरत्नसिंहासनं, उज्ज्वलं च तत् हेमरत्नसिंहासनं च उज्ज्वलहेमरत्नसिंहासनं, उज्वलहेमरत्नसिंहासने तिष्ठतीति उज्ज्वलहेमरत्नसिंहासनस्थस्तम् । केन ? 'रभसेन' आदरेण । इव-उत्प्रेक्ष्यते। चामीकरादिशिरसीव नवाम्बुवाहं आलोकयन्ति । 'आलोकयन्ति' इति क्रियापदम् । के कर्तारः ? 'भव्याः' मनो
१ 'चामीकरादिशिरसि' इत्यधिको घ-पाठः । २ 'वृत्तार्थः' इति ग-पाठः । । 'गभीरगिर' इत्यधिकः ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org