________________
कल्याणमन्दिरस्तोत्रम् अस्मद्वद् भवन्ति' इति शेषः । (अस्य भावः-) वयमपि शुद्धभावाः-धवलस्वभावाः सन्तो नत्वा ऊर्ध्वगतयः-उच्चैर्गतयो वर्तामहे । ऊर्ध्वशब्दे धकारो वकाराकान्तो विज्ञेयः, यदुक्तं शब्दप्रभेदे (श्लो० ५७)-"ऊर्ध्वशब्दो वकारवान्" । इति द्वाविंशतितमवृत्तार्थः ॥२२॥
मा०वि०-स्वामिन्निति । हे स्वामिन् ! अहं मन्ये । 'मन्ये' इति क्रियापदम् । कः कर्ता ? 'अहम्' । किं मन्ये तदाह-सुरचामरौघाः सुदूरं अवनम्य समुत्पतन्तो वदन्ति । 'वदन्ति' इति क्रियापदम् । के कर्तारः ? 'सुरचामरौघाः' । किं कुर्वन्तः ? 'समुत्पतन्तः' ऊर्ध्व गच्छन्तः। किं कृत्वा ? 'अवनम्य' नीचैः भूत्वा । कथम् ? 'सुदूरम्' अतिशयेन (दूरम्)। सुरचामरौघाः किंलक्षणाः? 'शुचयः' पवित्रा उज्ज्वला वा । किं वदन्ति तदाह-ये भव्या अस्मै आश्वसेनये जिनेश्वराय नतिं विदधते । 'विदधते' इति क्रियापदम् । के कारः ? 'ये' भव्याः । कां कर्मतापन्नाम् ? 'नतिम्' । कस्मै ? 'अस्मै । किम्भूताय ? 'मुनिपुङ्गवाय' मुनिषु पुङ्गवः मुनिपुङ्गवस्तस्मै । ते भव्या नूनं-निश्चितम् ऊर्ध्वगतयः स्युः । 'स्युः इति क्रियापदम् । के कर्तारः? 'ते' । किम्भूताः? 'ऊर्ध्वगतयः' । पुनः किम्भूताः? 'शुद्धभावाः' शुद्धो भावः-चित्ताभिप्रायो येषां ते शुद्धभावाः॥
सम्-उत्पूर्वो धातुः पत् शतृप्रत्ययः शव् , 'ऋदुदितः' (सिद्ध०१-४-७०) नोऽन्तः अलोपः जसि समुत्पतन्तः इति सिद्धम् । 'मनि बुधि च (बुधिं मनिंच् ?) ज्ञाने' (सिद्ध० धा०) मन्(धातुः) 'वर्तमाना ए' (सिद्ध० ३-३-६), 'दिवादेः श्यः' (सिद्ध ३-४-७२), 'लुगस्यादेत्यपदे' (सिद्ध०२-१-११३) अलुक् , मन्ये इति जातम् । चामराणां ओघाः चामरौघाः, सुराणां चामरौघाः सुरचामरौघाः । इदम्शब्दः चतुर्थी डे, 'आ द्वेरः' (सिद्ध० २-१-४१), 'सर्वादेः स्मै सातौ' (सिद्ध० १-४-७) डे स्मै आदेशः, 'अनक्' (सिद्ध० २-१-३६) इति इदम् अ आदेशः अस्मै इति जातम् । विपूर्वः धाधातुः (वर्तमाना) अन्ते' (सिद्ध० ३-३-६), 'हवः शिति' (सिद्ध० ४-१-१२), 'द्वितीयतुर्ययोः पूर्वी' (सिद्ध०४-१-४२) धस्य दः, 'अनतोऽन्तोऽदात्मने' (सिद्ध०४-२११४) अन्ते इत्यस्य अते तथा 'नश्चातः' (सिद्ध०४-२-९६) आलोपः, विदधते इति जातम् । ऊर्ध्वं गतयो येषां ते ऊर्ध्वगतयः । स्वयं अवनम्य समुत्पतन्तः सुरचामरौघा अनुकरणं कुर्वन्तः इति सूचयन्तीति भावः । इति द्वाविंशतितमकाव्यप्रपञ्चः ॥ २२ ॥
The poet describes the fourth Prātihārya
Oh Lord ! I think, the clusters of the sacred (or bright) celestial chowries (Chāmaras ) which first bend very low and then rise up proclaim that those pure-hearted persons who bow to (Thee) this master of the sages are sure to reach the highest grade. (22)
'रस भावोवद् (1) भवन्ति' इति क-पाठः, ग-पाठस्तु 'रमद्भवन्ति' इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org