________________
श्रीसिद्धसेनदिवाकरकृतम्
१८५ 'भव्या' । किं कर्मतापन्नम् ? 'अजरामरत्वम्' । कथम् ? 'तरसा' शीघ्रम् । किं कृत्वा? 'पीत्वा' । भव्याः किंलक्षणाः? 'परमसम्मदसङ्गभाजः' परमहर्षसङ्गभाजः॥
गभीरं च तत् हृदयं च गभीरहृदयं, गभीरहृदयमेव उदधिः गभीरहृदयोदधिः, गभीरहृदयोदधेः सम्भवा गभीरहृदयोदधिसम्भवा तस्याः। पीयूषस्य भावः पीयूषता ताम् । सम्पूर्वः उत्पूर्वः ईर्धातुः, 'चुरादिभ्यो णिच्' (सिद्ध० ३-४-१७), अन्यत् पूर्ववत् । 'पां पाने' (सिद्ध० धा०) पाधातुः क्त्वाप्रत्ययः, 'ईव्यञ्जनेऽयपि' (सिद्ध० ४-३-९७) इति सूत्रेण पीत्वा इति सिद्धम् । परमश्चासौ सम्मदश्च परमसम्मदः, परमसम्मदस्य सङ्गः परमसम्मदसङ्गः, तं भजन्तीति परमसम्मदसङ्गभाजः। जरा च मरश्च जरामरौ, न विद्यते जरामरौ येषां ते अजरामराः, अजरामराणां भावः अजरामरत्वं (तत्) । इत्येकविंशतितमवृत्तार्थः ॥२१॥
Jina's sermon leads to immortality.
It is proper that Thy speech which springs up from the ocean of Thy grave heart is spoken of as ambrosia; for, by drinking it, the Bhavyas who (hence) participate in the supreme joy, quickly attain the status of permanent youth and immortality. (21)
xxx खामिन् ! सुदूरमवनम्य समुत्पतन्तो . ___ मन्ये वदन्ति शुचयः सुरचामरौघाः। येऽस्मै नतिं विदधते मुनिपुङ्गवाय
ते नूनमूर्ध्वगतयः खलु शुद्धभावाः ॥ २२ ॥ . क. वृ०-हे स्वामिन् ! अहं एवं मन्ये-एवं सम्भावयामि । शुचयः सुस्चामरौघाः सुदूरमवनम्य समुत्पतन्तो वदन्तीत्यन्वयः । कवुक्तिः। 'सुरचामरौघाः' अमरवालव्यजनसमूहाः । सुराणां चामराणि सुरचामराणि 'तत्पुरुषः', सुरचामराणामोघाः सुरचामरौघाः 'तत्पुरुषः' । तवाग्रतः सुरकरधृतचामरश्रेणयः । 'शुचयः' पवित्रा निर्मला वा । 'सुदूरं' अतिशयेन दूरं यथा स्यादेवम् । 'अवनम्य' अधो नत्वा । अवनमनपूर्वमवनम्य 'तत्पुरुषः'(?) । 'समुत्पतन्तः' सम्यगूर्ध्व-नभसि गच्छन्तः सन्तः । 'वदन्ति' ज्ञापयन्ति । किं तदित्याह-ये नरा अस्मै मुनिपुङ्गवाय नतिं विदधते इत्यन्वयः । कर्चुक्तिः। 'मुनिपुङ्गवाय' मुनिप्रकृष्टाय जिनेन्द्रायेति यावत् । मुनिषु पुङ्गवः मुनिपुङ्गवः 'तत्पुरुषः' तस्मै । 'नति' प्रणामम् । 'विदधते' कुर्वन्तीत्यर्थः । ते नरा नूनं शुद्धभावाः खलु ऊर्ध्वगतयो भवन्ति । कव॒क्तिः। ते 'नराः जनाः । 'नून' निश्चयेन । 'शुद्धभावाः' विशुद्धचेतस्काः सन्तः । शुद्धो भावो येषां ते शुद्धभावाः 'बहुव्रीहिः' । खलु वाक्यालङ्कारे । 'ऊर्ध्वगतयः' ऊर्ध्व सिद्धिलक्षणा गतिर्येषां ते ऊर्ध्वगतयः 'बहुव्रीहिः' ।
भ०२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org