Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
१८४
कल्याणमन्दिरस्तोत्रम्
स्थाने गभीरहृदयोदधिसम्भवायाः पीयूषतां तव गिरः समुदीरयन्ति । पीत्वा यतः परमसम्मदसङ्गभाजो भव्या व्रजन्ति तरसाऽप्यजरामरत्वम् ॥ २१ ॥
क० वृ० - अत्र यत्तच्छन्दौ द्वावपि गम्यौ । हे विभो ! यत् तव गभीरहृदयोदधिसभवाया गिरः पीयूषतां समुदीरयन्ति, श्रोतार इत्यर्थाद् गम्यते इत्यन्वयः । कत्रुक्तिः । 'समुदीरयन्ति' इति क्रियापदम् । के कर्तारः ? 'श्रोतारः' । 'समुदीरयन्ति' वदन्ति । कर्मतापन्नाम् ? 'पीयूषतां' अमृतत्वम् । पीयूषस्य भावः पीयूषता ताम् । कस्याः ? 'गिरः ' वाचः । गिरः कथम्भूतायाः ? ' गभीर हृदयोदधिसम्भवायाः' गम्भीर हृदयाम्बुधिप्रभवायाः । हृदयमेवोदधिहृदयोदधिः 'कर्मधारयः', गभीरश्चासौ हृदयोदधिश्च गभीरहृदयोदधिः 'कर्मधारयः', गभीरहृदयोदधिः सम्भवो यस्याः सा गभीर हृदयोदधिसम्भवा तस्याः 'वहुव्रीहिः' । कस्य ? ' तव' । कथम् ? यत् तत् स्थाने वदन्ति, नास्थाने । स्थाने इत्यव्ययम् । पीयूषं समुद्रसम्भवं स्यात्, गीरपि हृदयादुत्पन्नेत्यर्थः । श्रोतारोऽपि तव गिरममृततया यत् कथयन्ति तत् स्थाने - युक्तमिति भावः । यतो भव्याः परमसम्मदसङ्गभाजस्तरसाऽप्यजरामरत्वं तां पीत्वा व्रजन्तीत्यन्वयः । कर्बुक्तिः । 'यतः' यस्माद्धेतोः । भव्याः कर्णाञ्जलि भिस्तां गिरमिति पदद्वयमध्याहार्यम् । 'पीत्वा' निपीय | 'परमसम्मद सङ्गभाजः ' प्रकृष्टप्रमोदसंयोगवन्तः । परमश्चासौ सम्मदश्च परमसम्मदः 'कर्मधारयः', परमसम्मदस्य सङ्गः परमसम्मदसङ्गः 'तत्पुरुषः', परमसम्मदसङ्गं भजन्तीति परमसम्मदसङ्गभाजः ' तत्पुरुषः' । कथम् ? ' तरसाऽपि ' तत्कालमपि । 'अजरामरत्वं' जरामरणरहितत्वम् । जरा च मरश्च जरामरौ ' द्वन्द्वः', न विद्येते जरामरौ येषां ते अजरामराः 'बहुव्रीहिः', अजरामराणां भावोऽजरामरत्वं तद् । ' व्रजन्ति' प्राप्नुवन्ति । यथा अमृतपानेऽजरामरत्वं प्राप्यते तथा तव वचनश्रवणेऽप्यजरामरत्वं प्राप्यते, अतस्तव वागमृतमेवेति श्रोतारो युक्तमेव जल्पन्ति । इत्येकविंशतितमवृत्तार्थः ॥ २१ ॥
मा०वि०-स्थाने इति । हे जिन ! स्थाने युक्तं तव गिरः - वाण्याः बुधाः पीयूषतां समुदीरयन्ति - कथयन्ति । 'समुदीरयन्ति' इति क्रियापदम् । के कर्तारः ? 'बुधाः' । कां कर्मतापन्नाम् ? 'पीयूषताम्' अमृतत्वम् । कस्याः ? 'गिरः ' वचसः । कथम् ? ' स्थाने' । स्थाने इति युक्तार्थे अव्ययम् । गिरः किम्भूतायाः ? ' गभीर हृदयोदधिसम्भवायाः ' गम्भीर हृद समुद्रोत्पन्नायाः । अन्याऽपि या सुधा सा समुद्रोत्पन्ना इयं तथात्वात् सुधि ( धे) व उत्पसम्यक्त्वादिगुणेन साम्यं कथयति । यतो - हेतोः भव्याः पीत्वा परमसम्मदसङ्गभाजः सन्तः तरसा - शीघ्रं अजरामरत्वं व्रजन्ति । ' व्रजन्ति' इति क्रियापदम् | के कर्तारः ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/3d1cb9c9d606d9b90e00bd0901470300b0e5064c516abbeb1928376f855204df.jpg)
Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408