Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
૩૨૩
कल्याणमन्दिरस्तोत्रम्
Efficacy of meditation is extra-ordinary.
Oh Lord of the Jinas! this soul, when meditated upon by the talented as nondistinct from Thee attains to Thy prowess in this world. Does not even water when looked upon as nectar verily destroy the effect of poison ? (17)
अ ॐ ॐ ॐ
त्वामेव वीततमसं परवादिनोऽपि
नूनं विभो ! हरिहरादिधिया प्रपन्नाः । किं काच कामलिभिरीश ! सितोऽपि शङ्खो विविधवर्णविपर्ययेण ? ॥ १८ ॥
क० वृ० - हे विभो ! परवादिनोऽपि त्वामेव वीततमसं हरिहरादिधिया नूनं प्रपन्नाः, सन्तीति शेषः । कर्तर्युक्तिः । हे नेतः ! । 'परवादिनोऽपि' आसतां स्वतीर्थ्याः, परतीर्थिका अपि 'वादिनो' वादो विद्यते येषां ते वादिनः, परे च ते वादिनश्च परवादिनः 'कर्म' धारयः' । त्वामेव 'वीततमसं' गतपापं गततमोगुणं वा वीतरागमित्यर्थः । वीतं तमो यस्मात् सवीततमास्तं 'बहुव्रीहिः' । 'हरिहरादिधिया' विष्णुरुद्रादिबुद्ध्या । हरिश्च हरश्च हरिहरौ 'द्वन्द्वः' हरिहरावादी येषां ते हरिहरादयः 'बहुव्रीहिः', हरिहरादीनां धीर्हरिहरादिधीस्तया 'तत्पुरुषः' । ' नूनं' निश्चयेन । 'प्रपन्नाः' आश्रिता वर्तन्ते । त्वामेव वीतरागं परेऽपि वादिनोऽन्यदेव बुद्ध्या आराधयन्तः सन्तीत्यर्थः । उक्तार्थसमर्थनाय दृष्टान्तमुपदिशति - हे ईश ! 'सितोऽपि शङ्खः काचकामलिभिर्विविधवर्णविपर्ययेण किं नो गृह्यते ? अपि तु गृह्यते । कर्मोक्तिः। हे ‘प्रभो’!। ‘सितोऽपि ' धवलोsपि । 'शङ्खः' कम्बुः । 'काचकामलिभिः' चक्षूरोगवद्भिः । काचकामलो विद्यते येषां ते काचकामलिनस्तैः 'बहुव्रीहिः' । 'विविधवर्णविपर्य 'ये' विविधाश्च ते वर्णाश्च विविधवर्णाः 'कर्मधारयः', विविधवर्णानां विपर्ययः विविधवर्णविपर्ययस्तेन 'तत्पुरुषः' पीतादिनानावर्णविपर्यासेन किं नो गृह्यते ? अपि तु चक्षूरोगिभिः धवलोsपि शङ्खः पीतोऽयमित्यादिबुद्ध्यैव ज्ञायते । इत्यष्टादशवृत्तार्थः ॥ १८ ॥
मा०वि० - त्वामेवेति । हे विभो ! परवादिनोऽपि त्वां एव वीततमसं नूनं - निश्चितं हरिहरादिधिया प्रपन्नाः सन्ति । 'सन्ति' इति क्रियापदम् । के कर्तारः ? ' परवादिनः' । कथम्? 'अपि' । परवादिनः किंलक्षणाः ? ' प्रपन्नाः ' आश्रिताः । कं कर्मतापन्नम् ? 'त्वाम्' । कथम् ? 'एव' । त्वां कथम्भूतम् ? 'वीततमसं' वीतं गतं तमः - अज्ञानं यस्य स वीततमास्तम् । कया ? 'हरिहरादिधिया' हरिश्च हरश्च हरिहरौ, तौ आदी येषां ते हरिहरादयस्तेषां धीः- बुद्धिस्तया । उक्तमर्थं दृष्टान्तसङ्कलितं करोति - हे ईश ! काच कामलिभिः पुरुषैः
Jain Education International
१ 'कर्मुक्तिः' इति ख- पाठः । २ 'इति कर्मोक्तिः' इति ख- पाठः । ३ ' शितोऽपि' इति घ-पाठः । ४ 'जिन !' इति ग-पाठः ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408