Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
१७३
कल्याणमन्दिरस्तोत्रम् लभाव-पाषाणत्वं अपास्य-त्यक्त्वा चामीकरत्वं-सुवर्णत्वं अचिरात्-शीघ्रं ब्रजन्ति । 'व्रजन्ति' इति क्रियापदम् । के कर्तारः? 'धातुभेदाः' । किं कर्मतापन्नम् ? 'उपलभावम्' । कस्मात् ? 'तीव्रानलात्' । कस्मिन् ? 'लोके' । कस्मात् ? 'अचिरात् ॥
विपूर्वः 'ओहांक् त्यागे' (सिद्ध० धा०) हाधातुः, विहानं पूर्व विहाय क्त्वाप्रत्ययः, 'अनञः क्त्वो य' (सिद्ध० ३-२-१५४ ) इति यवादेशः विहार्य इति सिद्धम् । परमश्वासावात्मा परमात्मा, परमात्मनो दशा परमात्मदशा ताम् । 'बज गतौ' बधातुः 'वर्तमाना० अन्ति' (सिद्ध० ३-३-६) शव अलोपे व्रजन्तीति जातम् । तीव्रश्वासौ अनलश्च तीव्रानलस्तस्मात् । उपलस्य भावः उपलभावस्तम् । अपासनं पूर्व अपास्य अपपूर्वोऽसूधातुः ‘असूच क्षेपणे' (सिद्ध० धा०) दिवादिः प्राक्काले क्त्वाप्रत्ययः 'अनञः क्त्वो यम्' (सिद्ध० ३-२-१५४) इति यबादेशः, सिलोपः अपास्य इति सिद्धम् । चामीकरस्य भावः चामीकरत्वम् । धातूनां भेदाः धातुभेदाः ॥ इति पञ्चदशवसन्ततिलकाच्छन्दोऽर्थलेशः ॥१५॥
Meditation of Jina leads to equality with IIim.
Oh Lord of the Jinas! by meditating upon Thee, mundane beings attain in a moment the supreme status leaving aside their body, as is the case in this world with pieces of ore which soon cease to be stones and become gold by the application of severe heat. (15)
अन्तः सदैव जिन! यस्य विभाव्यसे त्वं
भव्यैः कथं तदपि नाशयसे शरीरम् ? । एतत् स्वरूपमथ मध्यविवर्तिनो हि
यद् विग्रहं प्रशमयन्ति महानुभावाः ॥ १६ ॥ क. वृ०-हे जिन ! यस्यान्तर-मध्ये त्वं भव्यैः विभाव्यसे-ध्यायसे । कर्मोक्तिः। तदपि शरीरं त्वं कथं नाशयसे? इति कर्चुक्तिः। तदेव स्थानं तव नाशयितुं न युक्तमिति भावः । अथ विग्रहशब्देन शरीरं युद्धं च प्रोच्यते इति विग्रहशब्दस्य व्यर्थतां विचिन्त्य स्तुतिका२. शरीरस्यायुक्ततां विग्रहशब्दच्छलेन परिहरन्नाह । अथ मध्यविवर्तिन एतत् स्वरूपं, वतते इति शेषः। कर्चुक्तिः । अथेति अथवा । द्वयोर्विरोधिनोर्मध्ये-अन्तर विवर्तत इत्येवंशीलो मध्यविवर्ती, मध्यस्थः उभयपक्षतुल्यः, मध्ये विवर्तत इत्येवंशीलो मध्यविवर्ती तस्य 'तत्पु. रुषः' । 'हि' निश्चयेन । 'एतत्' वक्ष्यमाणम् । 'स्वरूपं' स्वभावः । अस्ति । एतत् किमित्याह यद् विग्रह-सङ्ग्रामं महानुभावा-महाप्रभावा महान् अनुभावो येषां ते महानुभावाः 'बहु
, 'भव्ययस्येति सिलोपः' इत्यधिकः ख-पाठः ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408