Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
१६४
कल्याणमन्दिरस्तोत्रम् ___ 'आसिक् उपवेशने' (सिद्ध० धा०) आसूधातुः पञ्चमी तां आस्तां इति सिद्धम् । अचिन्त्यमहिमनशब्दः प्रथमा सिः ‘नि दीर्घः' (सिद्ध० १-४-८५) इति सूत्रेण दीर्घः नलोपः सिलोपः 'अचिन्त्यमहिमा' इति सिद्धम् । युष्मद्शब्दः षष्ठी उस् 'डे-डसा तेमें' (सिद्ध० २-१-२३ ) इत्यनेन डसा सह ते आदेशः । नामनशब्दः प्रथमा सिः 'अनतो लुप्' (सिद्ध०१-४-५९) सिलोपः नलोपश्च नाम इति सिद्धम् । भवत्शब्दः डन्सः संहितायां भवतः इति जातम् । भवशब्दः पञ्चम्यर्थे तस्प्रत्ययः पञ्चमी उसिलोपः भवतः इति सिद्धम् । जगत्शब्दः द्वितीयाबहुवचनं शस् 'नपुंसकस्य शिः' (सिद्ध० १-४-५५) इति सूत्रेण शसः शिरादेशः शिस्थाने इरिति लिख्यते 'धुटां प्राक्' (सिद्ध० १-४-६६) इति नोऽन्तः संहितायां जगन्ति जातम् । तीव्रश्चासौ आतपश्च तीव्रातपः, तीव्रातपेन उपहताः तीव्रातपोपहताः, पान्थाश्च ते जनाश्च पान्थजनाः, तीव्रातपोपहताश्च ते पान्थजनाश्च तीव्रातपोपहतपान्थजनास्तान् । 'प्रींग्श् तृप्तिकान्त्योः' (सिद्ध० धा०) प्रीधातुः 'त्रयादेः' (सिद्ध० ३-४-७९) इति श्ना, 'वर्तमाना तिव्' (सिद्ध०३-३-६), नकारस्य णकारः प्रीणाति इति सिद्धम् । पद्मरुपलक्षितं सरः पद्मसरस्तस्य । सरसूशब्दः षष्ठीडस् संहितायां सरसः इति जातम् । सह रसेन-पानी येन वर्तते यः स सरसः। 'सहस्य सोऽन्यार्थे' (सिद्ध० ३-२-१४३) सहस्य सः । इति सप्तमकाव्यार्थः॥७॥
God's name brings to an end the cycle of births and deaths.
Oh Jina! Let Thy hymn whose sublimity is inconceivable be out of consideration; (for), even Thy name saves the (living beings of the) three worlds from
rorldly existence. Even the cool breeze of a lotus-lake gives delight in summer to the travellers tormented by the immense heat (of the sun). (7)
ननु यस्य देवस्य चिन्तने दर्शने सततं चेतसि धारणे च भक्तस्य नरस्य किमपि फलं न स्यात् तेन देवेन स्तुतेनापि किं भवेदित्याशय कविः स्तोतव्यजिनेन्द्रस्य चिन्तने दर्शने सततं चेतसि धारणे च क्रमेण फलं प्रतिपिपादयिषुः काव्यत्रयमाह
हृद्वर्तिनि त्वयि विभो! शिथिलीभवन्ति
जन्तोः क्षणेन निबिडा अपि कर्मबन्धाः। सद्यो भुजङ्गममया इव मध्यभाग
मभ्यागते वनशिखण्डिनि चन्दनस्य ॥ ८॥ क० वृ०-हे विभो ! त्वयि हृद्वर्तिनि जन्तोः निबिडा अपि कर्मबन्धाः क्षणेन शिथिलीभवन्ति । कर्तर्युक्तिः । त्वयि' भवति । 'हृद्वर्तिनि' हृदयमध्यवर्तिनि सति । हृदि वर्तत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408