Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
१७०
कल्याणमन्दिरस्तोत्रम् धारयः'। किं न पीतं?-किं न जठरान्तीतं? अपि तु तदपि पीतमेव। अग्निसमा हरादिदेवाः पानीयतुल्यः कामो वडवाग्निसदृशो भगवानिति उपनयस्तु सुकर एव । अस्मिन् वृत्ते कवीन्द्रेण-श्रीसिद्धसेनदिवाकरेण पठ्यमानेऽमोघवचःशक्त्या लिङ्गभेदोऽजायत । वीतरागस्वरूपाभिधानाच्च वीतरागस्य श्रीपार्श्वनाथस्य मूर्तिः प्रकटीबभूव । इत्येकादशवृत्तार्थः ॥११॥
मा०वि०-यस्मिन्निति । हे जिन! यस्मिन् रतिपतौ हरप्रभृतयः-ईश्वरादयोदेवा हतप्र. भावा वर्तन्ते। 'वर्तन्ते' इति क्रियापदम् । के कर्तारः? 'हरप्रभृतयः' । कस्मिन् ? 'यस्मिन् । किंलक्षणाः? हतः प्रभावो-महिमा येषां ते 'हतप्रभावाः' । सोऽपि रतिपतिः-कामः त्वया क्षणेन क्षपितः-क्षयं नीतः। 'क्षपितः' इति क्रियापदम् । केन का? 'त्वया' । कः कर्मतापन्नः? 'रतिपतिः' । केन ? 'क्षणेन' । रतिपतिः कः? 'सः' प्रसिद्धावदातः । कथम् ? 'अपि' । उक्तार्थ निदर्शनविषयीकरोति । अथेति युक्तार्थे । येन पयसा-पानीयेन हुतभुजो -वह्नयो विध्यापिताः । 'विध्यापिताः' इति क्रियापदम् । केन का? 'येन' । केन? 'पंयसा' । के कर्मतापन्नाः? 'हुतभुजः' । तदपि पयो-जलं दुर्धरवाडवेन-उत्कटसमुद्राग्निना किं न पीतम् ? अपि तु पीतम् । 'पीतम्' इति क्रियापदम् । कथम् ? 'न' । अत्र काकुध्वनिना अङ्गीकार एवागतः । केन का? 'दुर्धरवाडवेन' । किं कर्मतापन्नम् ? 'तत्' । कथम् ? 'अपि' । अपिरत्रातिशयार्थः । अत्र काव्ये जिनेति सम्बोधनपदमध्याहायेम् , अन्यथा भ्राजमान न स्यात् ॥ __ यशब्दः सप्तमी डौ 'आ देरः' (सिद्ध० २-१-४१) इति दस्य अत्त्वे पूर्वाकारलोपे 'डे: स्मिन्' (सिद्ध०१-४-८) इति डेः स्मिन्आदेशे यस्मिन्निति सिद्धम् । हरः प्रभृ. तिर्येषां ते हरप्रभृतयः। प्रभृतिशब्दे 'जस्येदोत्' (सिद्ध०१-४-२२) इति एत्त्वे ए अय् कृते जसि हरप्रभृतयः इति सिद्धम् । हतः प्रभावो येषां ते हतप्रभावाः । युष्मशब्दस्य टायां 'टाङ्योसि यः' (सिद्ध० २-१-७) इति दस्य यत्वे त्वया इति सिद्धम् । अत्र विश्लेषादि पूर्वोक्तत्वान्नोक्तं, परमभ्यूह्यम् । रत्याः पतिः रतिपतिः। विपूर्वः 'ध्यै चिन्तायां' (सिद्ध० धा०) ध्यैधातुः 'आत् सन्ध्यक्षरस्य' (सिद्ध० ४-२-१) इति सूत्रेण आकारः णिग्प्रत्ययः ‘अतिरीब्लीहीनूयिक्ष्माय्यातां पुः' (सिद्ध०४-२-२१) इति पुगागमः क्तप्रत्ययः इडागमः सेट् 'क्तयोः' (सिद्ध० ४-४-४०) इति णिग्लोपः जसि विध्यापिता इति जातम् । हुतं भुञ्जन्तीति हुतभुजः । 'पीच् पाने' (सिद्ध० धा०) पीधातुः क्तप्रत्ययः प्रथमा सौ क्लीवे पीतं इति जातम् । दुर्धरश्चासौ वाडवश्च दुर्धरवाडवस्तेन । इत्येकादशवृत्तव्याख्यालेशः ॥ ११ ॥
He establishes the pre-eminence of Lord Pārs'va in virtue of His dispassion.
Even that Cupid (the husband of Rati) who baffled even Hara (Siva ) and others was destroyed within a moment by Thee. (For), is not even that water which extinguishes ( earthly) conflagrations swallowed up by the irresistible submarine fire ? (11)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408