Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
१४२
कल्याणमन्दिरस्तोत्रम् 'डधांग्क् धारणपोषणयोः' (सिद्ध धा०) धाधातुः आनशप्रत्ययः । 'हवःशिति' (सिद्ध०४-१-१२) द्वित्वं, 'हस्वः' (सिद्ध०४-१-३९) इति पूर्वस्य इस्वत्वं 'द्वितीयतुर्ययोः पूर्वी' (सिद्ध० ४-१-४२) इति पूर्वधस्य दत्वं, 'नश्चातः' (सिद्ध०४-२-९६) इति आलोपः जसि दधाना इति जातम् । जन्म एव उदधिः जन्मोदधिस्तम् । अतिलघो
र्भावोऽतिलाघवं तेनातिलाघवेन ॥ इति द्वादशकाव्यार्थलेशः ॥ १२॥ ... Power of the great is unimaginable.
Oh Master ! How do the beings who resort to Thee soon cross the ocean of births (and deaths) with the greatest ease, when they carry in their heart, Thee, that art excessively heavy (dignified)? Or why, prowess of the great is incomprehensible. (12)
क्रोधस्त्वया यदि विभो ! प्रथमं निरस्तो ___ध्वस्तास्तदा बत कथं किल कर्मचौराः?। प्लोषत्यमुत्र यदिवा शिशिराऽपि लोके
नीलद्रुमाणि विपिनानि न किं हिमानी ? ॥ १३ ॥ क. वृ०-हे विभो ! यदि त्वया प्रथम क्रोधो निरस्त इत्यन्वयः। कर्मोक्तिः । 'प्रथम' पूर्वम् । त्वया यदि 'क्रोधः' कोपः । 'निरस्तः' मूलतोऽपि क्षिप्तः। तदा बत कर्मचौराः कथं ध्वस्ताः? । कर्मोक्तिः । तदा वतेत्यामन्त्रणे । हे स्वामिन् ! त्वयेति शेषः। 'कर्मचौराः' कर्मतस्कराः । कर्माण्येव चौराः कर्मचौराः 'कर्मधारयः'। किलेति सम्भावनायाम् । कथमिति प्रश्शे । 'ध्वस्ताः' व्यापादिताः। हननं तु क्रोधाकुलचेतसो नरस्य स्यात् , त्वया तु क्रोधं विनाऽपि कर्मचौरा निहता इत्येतत् कथं सम्भाव्यत इत्यर्थः । यदिवा शिशिराऽपि हिमानी नीलद्रुमाणि विपिनान्यमुत्र लोके किं न प्लोषति ? अपि तु प्लोषति । कवुक्तिः । 'यदिवा' अथवा । 'शिशिराऽपि' शीतलस्वभावाऽपि । 'हिमानी' महद् हिमम् । नीलाः -शाला द्रुमाः-तरवो यत्र तानि नीलगुमाणि 'बहुव्रीहिः' । 'विपिनानि' वनानि । 'अ. मुत्र' अस्मिन् । 'लोके' विश्वे । 'किं न प्लोषति ?' किं न दहति ? । अपि तु हिमानी शीत. स्वरूपाऽपि वनानि दहत्येव प्रसिद्धमेतद् । इति त्रयोदशवृत्तार्थः ॥ १३ ॥ .. मा० वि०-क्रोधस्त्वयेति । हे विभो! यदि त्वया क्रोधः प्रथमं निरस्तः-क्षिप्तः । "निरस्तः' इति क्रियापदम् । केन का? 'त्वया' । कः कर्मतापन्नः? 'क्रोधः'। कथम्? प्रथमं पूर्वम् । वत इति आश्चर्ये । तदा त्वया किल इति सत्ये कर्मचौराः कथं ध्वस्ताः! -हताः!, क्रोधं विना हननासम्भवात् , ततोऽयं प्रश्नगर्भवाक्यार्थः । 'ध्वस्ताः' इति क्रियापदम् । केन का? 'त्वया' । के कर्मतापन्नाः? 'कर्मचौराः' । कथम् ? 'तदा' । कथम्?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408