Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीसिद्धसेनदिवाकरकृतम्
१६७
गतसबलवाहरिक (१) लोकभयेन नश्यद्भिः । 'चौरैः' तस्करैः । 'आशु' शीघ्रम् | 'इव' यथा । 'पशवः' धेनुप्रभृतयः । मुच्यन्ते ॥ इति नवमवृत्तार्थः ॥ ९ ॥
मा० वि० - मुच्यन्त इति । हे जिनेन्द्र ! रौद्रैरुपद्रवशतैः त्वयि वीक्षितेपि स मनुजा:- मनुष्या मुच्यन्ते एवेति निश्चयेन । 'मुच्यन्ते' इति क्रियापदम् । कैः कर्तृभिः ? 'उपद्रवशतैः' । के कर्मतापन्नाः ? 'मनुजाः' । कथम् ? 'एव' । कथम् ? 'सहसा' शीघ्रम् । किंलक्षणैः उपद्रवशतैः ? 'रौद्रैः' भीषणैः । कस्मिन् सति ? 'त्वयि' सति । त्वयि किंलक्षणे ? 'वीक्षिते' दृष्टे । कथम् ? 'अपि' । उक्तार्थ दृष्टान्तयति - इव - यथा चौरैः गोस्वामिनि - सूर्ये दृष्टमात्रे सति पशवो मुच्यन्ते । 'मुच्यन्ते' इति क्रियापदम् । कैः कर्तृभिः ? 'चौरैः' । के कर्मतापन्नाः ? ' पशवः' । कस्मिन् सति ? 'गोस्वामिनि' सूर्ये । गोस्वामिनि कीदृशे ? 'दृष्टमात्रे' सति । गोस्वामिनि किंलक्षणे ? 'स्फुरिततेजसि ' दीप्तकिरणे । कथम् ? 'आशु' शीघ्रम् । चौरैः किंलक्षणैः ? 'प्रपलायमानैः' नश्यद्भिः ॥
'मुलंती मोक्षणे' (सिद्ध० धा० ) मुच् (धातुः) 'वर्तमाना अन्ते' (सिद्ध० ३-३-६) 'क्यः शिति' (सिद्ध० ३-४ -७० ) क्यप्रत्ययः यस्याकारलोपे संहितायां मुच्यन्ते इति सिद्धम् । उपद्रवानां शतानि उपद्रवशतानि तैः । गवां-किरणानां स्वामी गोस्वामी तस्मिन् । स्फुरितं तेजो यस्य स स्फुरिततेजास्तस्मिन् । केवलं दृष्टो दृष्टमात्रस्तस्मिन् । प्रपरोपसर्गाभ्यां परः 'अयि वयि पयि मयि ( नयि चयि रयि ) गतौ ' ( सिद्ध० धा० ) अयधातुः आनश्प्रत्ययः शव् अतोम् आने मकारागमः रस्य लकारः संहितायां प्रपलायमान इति जातं मिसि प्रपलायमानैः । इति नवमकाव्यार्थः ॥ ९ ॥
He points out the advantage of seeing God.
Oh Lord of the Jinas! No sooner art Thou merely seen by persons, than they are indeed spontaneously released from hundreds of horrible adversities, like the beasts from the thieves that are fleeing away at the mere sight of (1) the sun resplendent with lustre, ( 2 ) the king or ( 3 ) the cowherd shining with valour. (9)
X 32 点 您
त्वं तारको जिन ! कथं भविनां त एव त्वामुद्वहन्ति हृदयेन यदुत्तरन्तः ? | यद्वा दृतिस्तरति यज्जलमेष नूनमन्तर्गतस्य मरुतः स किलानुभावः ॥ १० ॥
१ 'काव्यार्थलेशः' इति ख- पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408