Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
१४३
श्रीकनककुशलगणिविरचिता उद्यच्छशाङ्कशुचयो निर्झरवारिधारा यत्र तद् 'बहुव्रीहिः' । उद्यत्-उद्गच्छन् यः शशाङ्क:चन्द्रस्तद्वत् शुचयो-धवला निर्झरवारिधारा-निर्झरजलधारा यत्र । अत्र मेरुतटसमं श्रीनाभेयशरीरं, निर्झरजलधारासमा चामरश्रेणिः । इति त्रिंशत्तमवृत्तार्थः ॥ ३०॥ (छत्रेत्यादि)। व्याख्या हे पवित्रचारित्र! तव-भवतः छत्रत्रयं, छत्राणां त्रयं छत्रत्रयं 'तत्पुरुषः' आतपवारणत्रितयं विभाति-चकास्ते । छत्रत्रयं किंलक्षणम् ? 'शशाङ्ककान्तं' चन्द्रमनोहरम् । शशोऽके यस्य स शशाङ्कः 'बहुव्रीहिः', शशाङ्कवत् कान्तं शशाङ्ककान्तं तत्पुरुषः' । छत्रत्रयं पुनः किंलक्षणम् ? "स्थितं' निविष्टम् । कथम् ? 'उच्चैः' ऊर्ध्व, मूर्ध्नि स्थितमित्यर्थः । छत्रत्रयं पुनः किंलक्षणम् ? 'स्थगितभानुकरप्रतापम्' आच्छादितसूर्यकरानुभावम् । भानोः करा भानुकराः 'तत्पुरुषः', भानुकराणां प्रतापो भानुकरप्रतापः 'तत्पुरुषः', स्थगितो भानुकरप्रतापो येन तद् 'बहुव्रीहिः' । पुनः किंविशिष्टं छत्रत्रयम्? 'मुक्ताफलप्रकरजालविवृद्धशोभम्' । मुक्ताफलानां प्रकरो मुक्ताफलप्रकरः 'तत्पुरुषः', मुक्ताफलप्रकरस्य जालं मुक्ताफलप्रकरजालं 'तत्पुरुषः', मुक्ताफलप्रकरजालेन विवृद्धा मुक्ताफलप्रकरजालविवृद्धा 'तत्पुरुषः', मुक्ताफलप्रकरजालविवृद्धा शोभा यस्य तद् 'बहुव्रीहिः' । मुक्ताफलप्रकरस्यमुक्ताफलसमूहस्य जालेन-रचनाविशेषेण विवृद्धा-वृद्धि प्राप्ता शोभा-प्रभा यस्य तत् । छत्रत्रयं किं कुर्वत् ? 'प्रख्यापयत्' निवेदयत् । किं कर्मतापन्नम् ? 'परमेश्वरत्वं' प्रकृष्टप्रभुत्वम् । परमश्वासावीश्वरश्च परमेश्वरः 'कर्मधारयः', परमेश्वरस्य भावः परमेश्वरत्वं तत् । कस्य ? 'त्रिजगतः' त्रिभुवनस्य । त्रयाणां जगतां समाहारस्त्रिजगत् तस्य 'द्विगुः' । इत्येकत्रिंशत्तमवृत्तार्थः ॥ ३१॥
, अथातिशयद्वारेण जिनं स्तौति-(उन्निद्रेत्यादि)।
व्याख्या-हे 'जिनेन्द्र!' जिनानामिन्द्रो जिनेन्द्रस्तस्य सम्बोधनं 'तत्पुरुषः' । तवभवतः पादौ-चरणौ यत्र भूमौ पदानि-गमने अवस्थानरूपाणि धत्ते-बिभ्रते। 'डु धाञ् धारणपोषणयोः' (पा० धा० १०९२) इति धातुः। तत्र-धरापीठे विबुधा-देवाः पद्मानि-कमलानि परिकल्पयन्ति-निर्मापयन्तीत्यर्थः । कथंभूतौ पादौ? 'उन्निद्रहेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूखशिखाभिरामौ' उन्निद्राणि-विकस्वराणि हेम्नः-सुवर्णस्य नवानि-नूतनानि नवसंख्याकानि वा पङ्कजानि-कमलानि तेषां पुञ्जः-समूहस्तस्य कान्तिःद्युतिस्तया पर्युल्लसन्ती-समन्तादुल्लसन्ती या नखानां मयूखशिखाः-किरणचूलास्ताभिरभिरामौ-रुचिरौ । नवानि च तानि पङ्कजानि च नवपङ्कजानि 'कर्मधारयः', हेनो नवपङ्कजानि हेमनवपङ्कजानि 'तत्पुरुषः', उन्निद्राणि च तानि हेमनवपङ्कजानि च उन्निद्रहेमनवपङ्कजानि 'कर्मधारयः', उन्निद्रहेमनवपङ्कजानां पुजः उन्निद्रहेमनवपङ्कजपुनः तत्पुरुषः',
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f1de17270837424c6ac588c3aa5da29fc6babb50f665ed50ab350a9ae5292b8e.jpg)
Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408