Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 279
________________ १५६ कल्याणमन्दिरस्तोत्रम् आनश्प्रत्यये मागमे च अमोऽकारलोपे अनु(स्वारे कृते) पोतायमानमिति सिद्धम् । अभिपूर्वो णमधातुस्तदने क्त्वाप्रत्ययः 'पाठे धात्वादेो नः' (सिद्ध० २-३-९७) इति णस्य नकारस्तदनु 'अनञः क्त्वो यप्' (सिद्ध०३-२-१५४) इति सूत्रेण यबादेशः, 'अव्ययस्य' (सिद्ध० ३-२-७) इति सूत्रेण सिलोपे अभिनम्येति सिद्धम् । सुराणां गुरुः सुरगुरुः । विपूर्वो भूधातुः, विभवतीति विभुः, डुप्रत्यये ऊकारलोपे सौ च विभुः इति सिद्धम् । विधानाय विधातुं विपूर्वो धाधातुः, तुम्प्रत्ययः, 'अव्ययस्य' सिलोपः विधातुमिति सिद्धम् । तीर्थस्य ईश्वरः तीर्थेश्वरः तस्य । 'डुकंग करणे' (सिद्ध० धातुपाठे) कृधातुः 'भविष्यन्ती स्ये' (सिद्ध० ३-३-१५) इटि गुणे षत्वे (च) करिष्ये इति सिद्धम् । आत्मगामिफलत्वात् इत्यत्र आत्मनेपदम् । ननु यदि सुरगुरुः स्तोत्रं विधातुं न विभुस्तदाऽहं करिष्ये इति कथं घटते ? तत्रोच्यते-सामस्त्येन प्रभोर्गुणान् सुरगुरुरपि स्तोतुं न समर्थः स्यात् , तेन भक्तिप्रेरितमना एकांशेन गुणस्तवनं करिष्ये इति भावः । अत्र विषये अन्योऽपि भावः कविभिः स्वयमूह्यः, यतो नानामतयः कवयः । इति काव्ययुग्मार्थः ॥ १-२॥ The poct declares his intention of praising Lord Pārs'vanatha:-- Having bowed to the lotus-feet of that Jines'vara ( Tirtharkara, Lord Pārs'vanātha ), who is the ocean of greatness, whom (even the preceptor of gods (Brihaspati ) himself in spite of his supremely wide knowledge is unable to praise and who is a comet ( or fire ) in destroying the arrogance of Kamatha--the feet which are the temple of bliss, which are sublime, which can destroy sins and ve safety to the terrified, which are fault-less and are (i.e., serve the purpose of ) a life-boat for all beings sinking in the ocean of existence, I will indeed compose a hymn (in honour) of Him. (1-2) अथ द्वितीयवृत्तप्रान्तपादगतकिलशब्दोदितालीकमेव विशेषत उद्भावयति सामान्यतोऽपि तव वर्णयितुं स्वरूप__ मस्मादृशाः कथमधीश ! भवन्त्यधीशाः ? । धृष्टोऽपि कौशिकशिशुर्यदिवा दिवाऽन्धो रूपं प्ररूपयति किं किल धर्मरश्मेः ? ॥३॥ क० वृ०-हे 'अधीश'! अस्मादृशास्तव स्वरूपं सामान्यतोऽपि वर्णयितुं कथमधीशा भवन्ति ? अपि तु न भवन्ति । कत्रुक्तिः। अधिकश्चासावीशश्चाधीशस्तस्य सम्बोधनं हे अधीश ! 'कर्मधारयः' । हे देवाधिदेव ! अस्मादृशा-अस्मद्विधा वयमिव दृश्यन्ते इत्यस्मादृशा मन्दमतयो जनास्तवेति भवतः स्वरूपं-लक्षणं सामान्यतोऽपि-निर्विशेषमपि वर्णयितुंप्रतिपादयितुं कथमधीशाः-समर्था भवन्ति । अत्र दृष्टान्तमाह-यदिवेति दृष्टान्तोपद Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408